क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैः पुनः
मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः
महाविषाणैर्महिषैरुष्ट्रैर्मत्तैश्च खादकैः
महाधूलीविमिश्रेण महाचण्डेन वायुना
महापाषाणवर्षेण हन्यमाना निराश्रयाः
महता बाणवर्षेण विध्यमानाश्च सर्वशः
प्रतप्तागारवर्षेण दह्यमाना व्रजंति च
महामेघरवैर्घोरैर्वित्रास्यंते मुहुर्मुहुः महाक्षाराम्बुधाराभिः सिच्यमाना द्रवंति च
महाशीतेन मरुता तीक्ष्णेन परुषेण च 4.6.
इत्थं मार्गेण रौद्रेण पांथैर्वि रहितेन च
अविश्रामेण महता निर्गतापाश्रयेण च
नीयंते देहिनः सर्वे ये मूढाः पापकर्मिणः
एकाकिनः पराधीना मित्रबंधुविवर्जिताः
प्रेतभूता विवस्त्राश्च शुष्ककण्ठोष्ठतालुकाः
बद्धाः शृंखलया केचिदुत्तानाः पादयोर्नराः
पुनश्चाधोमुखाश्चान्ये घृष्यमाणाः सुदुःखिताः
ललाटे चांकुशैस्तीक्ष्णैर्भिन्नाः कृष्यंति देहिनः
पाश्चाद्बाह्वंसबद्धाश्च जठरे च प्रपीडिताः
ग्रीवायामर्द्धचन्द्रेण क्षिप्यमाणा इतस्ततः 4.6.
विभिन्ना उदरे चान्ये तप्तशृंखलया नराः
छिन्नाग्रपादहस्ताश्च छिन्नकर्णौष्ठनासिकाः
प्रतुद्यमानाः कुंतैश्च सायकैश्च ततस्ततः
मुद्गरैर्ल्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः
भिंदिपालैर्विभिद्यंते स्रवंतः पूयशोणितम्
याचमानाश्च सलिलमन्नं चापि बुभुक्षिताः
दानहीनाः प्रयांत्येवं यावंतो विमुखा नराः
एवं पथातिकष्टेन प्राप्ता यमपुरं तदा
तत्र ये शुभकर्माणस्तांश्च संमानयेद्यमः
धन्या यूयं महात्मान आत्मनो हितकारिणः 4.6.
इदं विमानमारुह्य दिव्यस्त्रीभोगभूषितम्