द्योतयंतो दिशः सर्वा यांति दीपप्रदायिनः
सर्व कामसमृद्धेन पथा गच्छंति गोप्रदाः
आर्तौषधप्रदातारः सुखं यांति निराकुलाः
पादशौचप्रदानेन शीतलेन पथा व्रजेत्
हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन्
सर्वकामसमृद्धात्मा भूमिदानेन गच्छति
इत्येवमादिभिर्दानैः सुखं यांति यमक्षयम्
सर्वेषामेव दानानामन्नदानं परं स्मृतम्
त्रयाणामपि लोकानां जीवितं ह्युदकं स्मृतम् 4.6.
अन्नं पानं च गोवस्त्रभूशय्याच्छत्रमासनम्
अन्नदानं विशेषेण धर्म राजपुरे नराः
ये पुनः क्रूरकर्माणः पापा दानविवर्जिताः
षडशीतिसहस्राणि योजनानामतीत्य यत्
समीपस्थमिवाभाति नराणां शुभकर्मणाम्
तीव्रकंटकयुक्तेन शर्करानिचितेन च
क्वचित्पंकेन महता दुरुत्तारैश्च खातकैः
तटप्रपातविष्टंभैः पर्वतैर्वृक्षसंकुलैः
क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैः सुपिच्छिलैः
अनेकतापैर्विततैर्व्याप्तं वंशवनं क्वचित् 4.6.
क्वचिदुष्णांबुना व्याप्तं क्वचित्कारीषवह्निना
क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैः पुनः
मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः
महाविषाणैर्महिषैरुष्ट्रैर्मत्तैश्च खादकैः
महाधूलीविमिश्रेण महाचण्डेन वायुना
महापाषाणवर्षेण हन्यमाना निराश्रयाः
महता बाणवर्षेण विध्यमानाश्च सर्वशः
प्रतप्तागारवर्षेण दह्यमाना व्रजंति च
महामेघरवैर्घोरैर्वित्रास्यंते मुहुर्मुहुः महाक्षाराम्बुधाराभिः सिच्यमाना द्रवंति च
महाशीतेन मरुता तीक्ष्णेन परुषेण च 4.6.
इत्थं मार्गेण रौद्रेण पांथैर्वि रहितेन च