अधर्मिणे च नाकस्य फलं दातुं समर्हति
अतः स हसितः पूर्वं मोहितो हरिलीलया
वाक्यं तेन कृतं शूल्यामतो जीवितवाच्छुचिः
राजन्पुष्पावती रम्या नगरी तत्र भूपतिः
चन्द्रप्रभा तस्य पत्नी रूपयौवन शालिनी
कदाचित्स्वालिभिः सार्द्धं विपिनं कुसुमाकरम्
मोहिता चाभवद्देवी विप्रोपि पतितः क्षितौ
तस्यां गतायां सदने द्वौ विप्रौ तत्र चागतौ
तथागतं द्विजं दृष्ट्वा रूपयौवनशालिनम्
स श्रुत्वा रोदनं कृत्वा सर्वं तस्मै न्यवेदयत्
गृहे जप्त्वा महामंत्रं चामुण्डाबीजसंयुतम्
एकया सुंदरी कन्या द्वादशाब्दमयी शुभा
द्वौ गतौ राजसदने नृपमाशीर्भिरर्च्य तम् 3.2.14.
पलायितौ सुतः पत्नी तावन्वेष्टुं समाययौ
यावदहं न गच्छामि स्वगेहे रक्ष धर्मतः तस्यै समर्प्य तां पश्चात्स द्विजो गेहमाययौ
सुदेवस्तु निशीथे वै रमणीं प्राह निर्भयः
साह मे हृदये नित्यं सुदेवो ब्राह्मणोत्तमः
सुदेवश्चाह भोः सुभूर्यदि ते ब्राह्मणोत्तमम् साह ते सर्वदा दासी भवामि द्विजभामिनि
इति श्रुत्वा सुदेवस्तु मुखान्निष्कृष्य यंत्रकम्
चतुर्मास्यो भवद्गर्भस्तस्मिन्काले तु भो नृप
अमात्यतनयो विप्रस्त्रीरूपं प्रति मोहितः
मन्त्री स्नेहाच्च बहुधा सञ्चित्य हृदि पंडितैः 3.2.14.
साह भोमात्यतनय त्रिमासं तीर्थमण्डले
तथा मत्वा मंत्रिसुतो नम्रात्मा मदनालसः
भूपकांतिं कामवशां चालिलिंग स कामुकः
सुदेवो मानुषो भूत्वा मूलदेवगृहं ययौ
मूलदेवः प्रसन्नात्मा शशिनं नाम मित्रकम्
राज्ञे निवेद्य तत्सर्वं वधूं मे देहि भूपते
मन्त्री राजकरो नाम तत्पुत्रो मदनालसः
स्वपुत्रस्य वियोगेन स मन्त्री च तथेदृशः