उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते
ये द्विजाः प्रतिगृह्णंति नृपस्यान्यायवर्तिनः
पारदारिकचौराणां यत्पापं पार्थिवस्य तत्
अचौरं चौरवत्पश्येच्चोरं वाऽचौररूपवत् 4.5.
घृततैलान्नपानानि मधुमांससुरासवम्
तृणं काष्ठं पुष्पपत्रमौषधं कांस्यभाजनम्
ताम्रं सीसं त्रपुं काचं शंखाद्यं च जलोद्भवम्
ऊर्णाकार्पासकौशेयभंगपट्टोद्भवानि च
एवमादीनि चान्यानि द्रव्याणि विविधानि च
यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम्
एवमाद्यै्र्नरः पापैरुत्क्रांतेः समनंतरम्
यमलोकं व्रजेत्तेन शरीरेण यमाज्ञया
तिर्यङ्मानुषदेहानामधर्मनिरतात्मनाम्
विनयाचारयुक्तानां प्रमादात्स्खलितात्मनाम् 4.5.
पारदारिकचौराणामन्यायव्यवहारिणाम्
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत्
यः करोति स्वयं कर्म कारयेद्वापि मोद येत्
इति संक्षेपतः प्रोक्ताः पापभेदाः ससाधनाः
वाक्कायचित्तजनितैर्बहुभेदभिन्नैः कृत्यैः शुभाशुभफलोदयहेतुभूतैः
शुभाशुभफलनिर्देशवर्णनम् श्रीकृष्ण उवाच संत्रासजननं घोरं विवशाः सर्वदेहिनः
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः
शुभाशुभफलं तत्र देहिनां प्रविचार्यते
न तेऽत्र प्राणिनः संति ये न यांति यमक्षयम्
तत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः ।।।८ ते नरा यांति सौम्येन पथा यमनिकेतनम्
यः प्रदद्याद्द्विजेन्द्राणामुपानत्काष्ठपादुकाम्
छत्रदानेन गच्छंति यथा छत्रेण देहिनः
शिबिकाश्वप्रदानेन ततस्तेन सुखं व्रजेत्
आरामकर्ता छायासु शीतलासु सुखं व्रजेत्
देवायतनकर्ता च यतीनामाश्रमस्य च 4.6.
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः