परश्रिया ये तप्यंते ये परद्रव्यसूचकाः
द्विजाय दुःखं यः कुर्यात्प्रकारैर्बहुभिः सदा
ये पानाभिरताः क्रूरा ये च हिंसाप्रिया नराः
गोष्ठाग्निजलरथ्यासु तरुच्छायामठेषु च
मद्यपानरता नित्यं गानवाद्यरता नराः 4.5.
वंशेषु काशकाष्ठैश्च शुभैः शंकुभिरेव वा
कूटशासनहर्तारः कूटकर्मक्रियारताः
धनुषां शल्यशस्त्राणां यः कर्ता यश्च विक्रयी
मिथ्या प्रवदतो वाक्यमाकर्णयति यः शनैः
ये भार्यापुत्रमित्राणि बालवृद्धकृशातुरान्
यः स्वयं मिष्टमश्नाति विप्रायान्यत्प्रयच्छति
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः
पीडयंत्यतिभारेण सक्षतान्वाहयंति च
ये भग्नक्षतरोगार्तान्स्वगोरूपान्बुभुक्षया 4.5.
वृषाणां वृषणान्येव पापिष्ठा गालयंति ये
आश्रमं समनुप्राप्तं क्षुत्तृष्णाश्रमपीडितम्
अनाथं विकलं दीनं बालं वृद्धं कृशातुरम्
अजाविको माहिषिकः सामुद्रो वृषलीपतिः
शिल्पिनः कारुका वैद्या हेमकारा नटा द्विजाः
यश्चोदितमतिक्रम्य स्वेच्छया वा हरेत्करम्
उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते
ये द्विजाः प्रतिगृह्णंति नृपस्यान्यायवर्तिनः
पारदारिकचौराणां यत्पापं पार्थिवस्य तत्
अचौरं चौरवत्पश्येच्चोरं वाऽचौररूपवत् 4.5.
घृततैलान्नपानानि मधुमांससुरासवम्
तृणं काष्ठं पुष्पपत्रमौषधं कांस्यभाजनम्
ताम्रं सीसं त्रपुं काचं शंखाद्यं च जलोद्भवम्
ऊर्णाकार्पासकौशेयभंगपट्टोद्भवानि च
एवमादीनि चान्यानि द्रव्याणि विविधानि च
यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम्