ऋणानामप्रदानं च धान्यवृद्ध्युपजीविनाम्
विषमारणमंत्राणां प्रयोगो मूलकर्मणाम्
जिह्वासमुपभोगार्थं यस्यारम्भः स्वकर्मसु
व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम्
देवाग्निसाधुसाध्वीनां निंदा गोब्राह्मणस्य च। प्रत्यक्षं वा परोक्षं वा राज्ञां मण्डलिकामपि 4.5.
पर्वकाले दिवा चैव वियोनौ पशुयोनिषु
स्त्रीपुत्रमित्रसंप्रीते ग्रासान्नच्छेदकाश्च ये
भेत्ता तडागचक्राणां संक्रमाणां रथस्य च
इत्येतैस्ते नराः पापैरुपपातकिनः स्मृताः
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम्
परश्रिया ये तप्यंते ये परद्रव्यसूचकाः
द्विजाय दुःखं यः कुर्यात्प्रकारैर्बहुभिः सदा
ये पानाभिरताः क्रूरा ये च हिंसाप्रिया नराः
गोष्ठाग्निजलरथ्यासु तरुच्छायामठेषु च
मद्यपानरता नित्यं गानवाद्यरता नराः 4.5.
वंशेषु काशकाष्ठैश्च शुभैः शंकुभिरेव वा
कूटशासनहर्तारः कूटकर्मक्रियारताः
धनुषां शल्यशस्त्राणां यः कर्ता यश्च विक्रयी
मिथ्या प्रवदतो वाक्यमाकर्णयति यः शनैः
ये भार्यापुत्रमित्राणि बालवृद्धकृशातुरान्
यः स्वयं मिष्टमश्नाति विप्रायान्यत्प्रयच्छति
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः
पीडयंत्यतिभारेण सक्षतान्वाहयंति च
ये भग्नक्षतरोगार्तान्स्वगोरूपान्बुभुक्षया 4.5.
वृषाणां वृषणान्येव पापिष्ठा गालयंति ये
आश्रमं समनुप्राप्तं क्षुत्तृष्णाश्रमपीडितम्
अनाथं विकलं दीनं बालं वृद्धं कृशातुरम्
अजाविको माहिषिकः सामुद्रो वृषलीपतिः
शिल्पिनः कारुका वैद्या हेमकारा नटा द्विजाः
यश्चोदितमतिक्रम्य स्वेच्छया वा हरेत्करम्