परस्त्रीष्वथ संकल्पश्चेतसानिष्टचिंतनम्
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत्
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम्
इत्येतद्द्वादशविधं कर्म प्रोक्तं ससाधनम् ।। तेषां भेदं पुनर्वच्मि येषां फलमनंतकम् )। ७ ' ये द्विषंति महादेवं संसारार्णवतारणम्
महापातकिनश्चैते तत्संसर्गी च पंचमः
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणं विशसंति ये । 4.5.
ब्राह्मणं च समाहूय याचमानमकिञ्चनम्
यस्तु विद्याभिमानेन नित्यं जयति वै द्विजान्
मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षणं बलात् क्षुत्तृट्संतप्तदेहानां द्विजानां भोक्तुमिच्छताम्
पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः
गवां तृष्णाभिभूतानां जलार्थमुपसर्पताम्
परदोषमभिज्ञाय नृपकर्णे करोति यः
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम्
द्विजवित्तापहरणे न्यायतः समुपार्जिते
अग्निहोत्रपरित्यागो यस्तु याज्ञिककर्मणाम् 4.5.
गवां मार्गे वने चाग्निं पुरे ग्रामे च दीपयेत्
हीनस्वहरणे चापि नरस्त्रीगजवाजिनाम्
चंदनागरुकर्पूरकस्तूरीखण्डवाससाम्
कन्यानां वरयोग्यानामदानं सदृशे वरे
कुमारीसाहसं घोरमन्त्यजस्त्रीनिषेवणम्
महापातकतुल्यानि पापान्युक्तानि यानि तु
द्विजार्थं च प्रतिज्ञाय न प्रयच्छति यः पुनः
द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमः
अत्यंतविषयासक्तिः कार्पण्यं श्रेष्ठमत्सरः
परिवित्तिः परीवेत्ता यया च परिविद्यते 4.5.
पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा
भंगश्च धर्मकृत्यानां सहायानां विनाशनम्
स्वभृत्यपरिवर्गस्य पशुधान्यधनस्य च
गवां क्षत्रियवेश्यानां स्त्रीशूद्राणां विशेषतः तीर्थयात्रोपवासानां व्रतायतनकर्मणाम्
स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः