अमी प्राघूर्णकाः प्राप्ता भक्तच्छेदे च मे गृहे
प्रदानकाले कन्यायाः कीदृशश्च वरो भवेत् 4.4.
कुटुंबचिंताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे
राज्येपि च महद्दुःखं संधिविग्रहचिंतया
सजातीयाद्वधः प्रायः सर्वेषामेव देहिनाम्
नाप्रधृष्यबलः कश्चिन्नृपः ख्यातोस्ति भूतले
आ जन्मनः प्रभृति दुःख मयं शरीरं कर्मात्मकं तव मया कथितं नरेन्द्र
पापभेदाख्यानवर्णनम् नरकार्णवघोरेषु यातना पापमुच्यते
अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः
तत्र ये पापनिचयाः स्थूला नरकहेतवः
परस्त्रीष्वथ संकल्पश्चेतसानिष्टचिंतनम्
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत्
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम्
इत्येतद्द्वादशविधं कर्म प्रोक्तं ससाधनम् ।। तेषां भेदं पुनर्वच्मि येषां फलमनंतकम् )। ७ ' ये द्विषंति महादेवं संसारार्णवतारणम्
महापातकिनश्चैते तत्संसर्गी च पंचमः
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणं विशसंति ये । 4.5.
ब्राह्मणं च समाहूय याचमानमकिञ्चनम्
यस्तु विद्याभिमानेन नित्यं जयति वै द्विजान्
मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षणं बलात् क्षुत्तृट्संतप्तदेहानां द्विजानां भोक्तुमिच्छताम्
पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः
गवां तृष्णाभिभूतानां जलार्थमुपसर्पताम्
परदोषमभिज्ञाय नृपकर्णे करोति यः
प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम्
द्विजवित्तापहरणे न्यायतः समुपार्जिते
अग्निहोत्रपरित्यागो यस्तु याज्ञिककर्मणाम् 4.5.
गवां मार्गे वने चाग्निं पुरे ग्रामे च दीपयेत्
हीनस्वहरणे चापि नरस्त्रीगजवाजिनाम्
चंदनागरुकर्पूरकस्तूरीखण्डवाससाम्
कन्यानां वरयोग्यानामदानं सदृशे वरे
कुमारीसाहसं घोरमन्त्यजस्त्रीनिषेवणम्