प्रबोधेऽपि कुतः सौख्यं कार्यैरुपहतात्मनः
प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने तु बुभुक्षया 4.4.
अर्थस्योपार्जने दुःखमर्जितस्यापि रक्षणे
चौरेभ्यः सलिलादग्नेः स्वजनात्पार्थिवादपि
खे यातं पक्षिभिर्मांसं भक्ष्यते श्वापदैर्भुवि
विमोहयति संपत्सु तापयंति विपत्तिषु
यथार्थपतिरुद्विग्नो यश्च सर्वार्थनिःस्पृहः
शीतेन दुःखं हेमंते ग्रीष्मे तापेन दारुणम्
विवाहविस्तरे दुःखं तद्गर्भोद्वहने पुनः
दन्ताक्षिरौगैः पुत्रस्य हा कष्टं किं करोम्यहम्
अमी प्राघूर्णकाः प्राप्ता भक्तच्छेदे च मे गृहे
प्रदानकाले कन्यायाः कीदृशश्च वरो भवेत् 4.4.
कुटुंबचिंताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे
राज्येपि च महद्दुःखं संधिविग्रहचिंतया
सजातीयाद्वधः प्रायः सर्वेषामेव देहिनाम्
नाप्रधृष्यबलः कश्चिन्नृपः ख्यातोस्ति भूतले
आ जन्मनः प्रभृति दुःख मयं शरीरं कर्मात्मकं तव मया कथितं नरेन्द्र
पापभेदाख्यानवर्णनम् नरकार्णवघोरेषु यातना पापमुच्यते
अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः
तत्र ये पापनिचयाः स्थूला नरकहेतवः
परस्त्रीष्वथ संकल्पश्चेतसानिष्टचिंतनम्
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत्
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम्
इत्येतद्द्वादशविधं कर्म प्रोक्तं ससाधनम् ।। तेषां भेदं पुनर्वच्मि येषां फलमनंतकम् )। ७ ' ये द्विषंति महादेवं संसारार्णवतारणम्
महापातकिनश्चैते तत्संसर्गी च पंचमः
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणं विशसंति ये । 4.5.
ब्राह्मणं च समाहूय याचमानमकिञ्चनम्
यस्तु विद्याभिमानेन नित्यं जयति वै द्विजान्
मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षणं बलात् क्षुत्तृट्संतप्तदेहानां द्विजानां भोक्तुमिच्छताम्
पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः