पीडितं सर्वरोगाद्यैरपि धन्वन्तरिः स्वयम्
नौषधं न तपो दानं न मंत्रा न च बांधवाः
रसायनतपोजप्यैर्योगसिद्धैर्महात्मभिः 4.4.
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम्
सद्भार्यापुत्रमित्राणि राज्यैश्वर्यध नानि च
हे जनाः किं न पश्यध्वं सहस्रस्यापि मध्यतः
अशीतिका विपद्यन्ते केचित्सप्ततिका नराः
यस्य यावद्भवेदायुर्देहिनां पूर्वकर्मभिः
बालभावेन मोहेन वार्द्धक्ये जरया तथा
आगंतुकेर्भयैः पुंसां व्याधिशोकैरनेकधा
जीवितांते च मरणं महाघोरमवाप्नुयात्
देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात्
महातपप्रविष्टस्य च्छिद्यमानेषु मर्मसु 4.4.
हा तात मातः कांतेति रुदन्नेवं हि दुःखितः
बांधवैः संपरिष्वक्तः प्रियैः स परिवारितः
क्रन्दते चैव खट्वायां परिवर्तन्मुहुर्मुहुः
खट्वातो कांक्षते भूमिं भूमेः खट्वां पुनर्महीम्
याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः
पञ्चावटान्खन्यमानः कालपाशेन कर्षितः
जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात्
मरणात्प्रार्थनादुःखमधिकं हि विवे किनः
जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः
ज्ञातं मयेदमधुना मतं भवति यद्गुरु 4.4.
आदौ दुःखं तथा मध्ये दुःखमंते च दारुणम्
वर्तमानान्यतीतानि दुःखान्येतानि यानि तु
अत्याहारान्महद्दुःखमनाहारान्महत्तमम्
बुभुक्षा सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः
तद्रसोपि हि कामाद्वा जिह्वाग्रे परिवर्तते
इति क्षुद्व्याधितप्तानामन्नमौषधवत्स्मृतम्
मृतोपमो यश्चेक्षेत सर्वकार्यविवर्जितः