रक्तो मूढस्य लोकोऽयमकार्ये संप्रवर्तते
न श्रूयते परं श्रेयः सति चक्षुषि नेक्षते
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि 4.4.
गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः
ये संत्यस्मिन्परे ज्ञाने सर्वकामार्थसाधके
अव्यक्तेंद्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः
दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा
तृड्बुभुक्षापरीतांगः कश्चित्तिष्ठति रारटन्
कौमारे कर्णवेधेन मातापित्रोश्च ताडनात्
प्रसन्नेंद्रियवृत्तिश्च कामरागप्रपीडनात्
ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य जायते
न रात्रौ विंदते निद्रां कोपाग्निपरिपीडितः
स्त्रीष्वायासितदेहस्य ये पुंसः शुक्रबिंदवः 4.4.
क्रिमिभिस्तुद्यमानस्य कुष्ठिनः कामिनस्तथा
यादृशं विंदते सौख्यं गंडान्वयविनिर्गमे
गंडस्य वेदना यद्वत्स्फुटितस्य निवर्तते
विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम्
नारीष्वशुचिभूतासु सर्वदोषाश्रयासु च
सन्मानमपमानेन वियोगेन सुसंगमः
वलीपलितखालित्यैः शिथिलीकृतविग्रहम्
स्त्रीपुंसयोर्न्नवं रूपं तदान्योन्यं प्रियं पुरा
अपूर्ववत्स्वमात्मानं जरया परिवर्तितः
जराभिभूतः पुरुषः पत्नीपुत्रादिबांधवैः 4.4.
धर्ममर्थं च कामं च मोक्षं च न जरी यतः
वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते
वाताद्यव्यतिरिक्तत्वाद्व्याधीनां पञ्जरस्य च तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम्
एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम्
ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यंति भेषजैः
यदि चापि न मृत्युः स्याद्विषमद्यादशंकितः
विविधा व्याधयः शस्त्रं सर्पाद्याः प्राणिनस्तथा