पतितः सागरे यद्वद्दुःखैरास्ते समाकुल.
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना
सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरंतरम्
गर्भवासात्परो वासः कष्टो नैवास्ति कुत्रचित् 4.4.
इत्येतद्गर्भदुःख हि प्राणिनां परिकीर्तितम्
गर्भात्कोटिगुणं दुःखं योनियंत्रप्रपीडनात्
शरवत्पीड्यमानस्य यंत्रेणेव समंततः
यंत्रेण पीडिता यद्वन्निःसाराः स्युस्तिलेक्षवः
अस्थिमज्जात्वचामांसस्नायुबंधेन यंत्रितम्
केशलोमतृणाच्छन्नं रोगायतनमातुरम्
ओष्ठद्वयकपाटं च दन्तजिह्वार्गलान्वितम्
जराशोकसमाविष्टं कालचक्रानले स्थितम्
भोगतृष्णातुरं मूढं रागद्वेषवशानुगम् 4.4.
संकटेनाविविक्तेन योनिद्वारेण निर्गतम्
इति देहगृहं प्रोक्तं नित्यस्यानित्यमा त्मनः
शुक्रशोणितसंयोगाद्देहः संजायते यतः
यथांतर्विष्ठया पूर्णः शुचिः स्यान्न बहिर्घटः
संप्राप्यात्र पवित्राणि पंचग व्यहवींषि च
देहः संशोध्यमानोऽपि पञ्चगव्यकुशांबुभिः
स्रोतांसि यस्य सततं प्रवहंति गिरेरिव
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते
कायः सुगंधधूपाद्यैर्यत्नेनापि तु संस्कृतः
यथा जात्यैव कृष्णो हि न शुक्लः स्यादुपायतः 4.4.
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम्
अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत्
एवमेतच्छरीरं हि निसर्गादशुचि ध्रुवम्
गर्भस्थस्य स्मृतिर्यासीत्सा जातस्य प्रणश्यति
बाह्येन वायुना चास्य मोहसंज्ञेन देहिनः
तेन ज्वरेण महता महामोहः प्रजायते
स्मृतिभ्रंशात्तु तस्येह पूर्वकर्मवशेन च