इत्युक्त्वा सा तु भूपाय मार्गभेदमदर्शयत्
आययौ सेनया सार्द्धं यत्र चौरः स्वयं स्थितः
संपूज्य वर्णयामास यथा जातं तथाविधि ।। विहस्याह च रक्षस्तं त्वया मे भोजनं कृतम्
अद्य भक्ष्याम्यहं सर्वान्मानुषान्दैवचोदितान्
चखाद बहुलां सेनां तेपि याता दिशो दश
तदा चौरः स्वयं प्राप्य भूपतिं प्राह रोषतः
इति श्रुत्वा नृपश्चैव तूर्णमागत्य तत्र ह
रक्षसा सह तद्गर्तं भस्मसादभवत्क्षणात्
तथा सर्वधनैः सार्धं स्त्रीभिस्ताभिः समाययौ
पटहाताडितेनैव शब्देन च गृहेगृहे 3.2.13.
तद्दिने नगरे तस्मिन्भ्रामितो गर्दभोपरि
तस्य रूपं समालोक्य मुमोह सुखभाविनी
स गत्वा नृपतिं प्राह पंचलक्षधनं मम
विहस्याह नृपस्तं वै चौरोऽयं धनलुंठकः
इति श्रुत्वा निराशोऽभूत्स चौरो मरणं गतः
एतस्मिन्नेव तत्पुत्री देवमायाविमोहिता
तदा प्रसन्ना सा दुर्गा तावुजीव्य प्रसादतः
इत्युक्त्वा स तु भूपालं पुनः प्राह विहस्य तम्
तस्यै किं च प्रदातव्यं मया तत्स्नेहरूपिणा
अतो रोदितवान्पश्चाद्धसने कारणं शृणु ।। 3.2.13.
अधर्मिणे च नाकस्य फलं दातुं समर्हति
अतः स हसितः पूर्वं मोहितो हरिलीलया
वाक्यं तेन कृतं शूल्यामतो जीवितवाच्छुचिः
राजन्पुष्पावती रम्या नगरी तत्र भूपतिः
चन्द्रप्रभा तस्य पत्नी रूपयौवन शालिनी
कदाचित्स्वालिभिः सार्द्धं विपिनं कुसुमाकरम्
मोहिता चाभवद्देवी विप्रोपि पतितः क्षितौ
तस्यां गतायां सदने द्वौ विप्रौ तत्र चागतौ
तथागतं द्विजं दृष्ट्वा रूपयौवनशालिनम्
स श्रुत्वा रोदनं कृत्वा सर्वं तस्मै न्यवेदयत्