प्रमाणं श्रुतिरेवात्र धर्माधर्मविनिश्चये
ऋतुकाले तदा भुक्तं निर्दोषं येन संस्थितम्
विसर्गकाले शुक्रस्य जीवः करणसंयुतः
तच्छुक्ररक्तमेकस्थमेकाहात्कललं भवेत् 4.4.
बुद्बुदं सप्तरात्रेण मांसपेशी भवेत्ततः
बीजस्येवांकुराः पेश्याः पञ्चविंश तिरात्रतः
ग्रीवा शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम्
त्रिभिर्मासैः प्रजायंते सद्रव्यांकुरसंधयः
मुखं नासा च कर्णौ च जायन्ते पञ्च मासकैः
कर्णौ च रंध्रसहितौ षण्मासाभ्यंतरेण तु
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः
विभक्तावयवः पुष्टः पुनर्मासाष्टकेन च
मातुराहारवीर्येण षड्विधेन स तिष्ठति
तत्तेऽहं संप्रवक्ष्यामि यथाश्रुतमरिंदम 4.4.
ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मिञ्छरीरके
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च
गर्भस्थश्चिंतये देवमहं गर्भाद्विनिःसृतः
एवं स गर्भदुःखेन महता परिपीडितः
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति
पतितः सागरे यद्वद्दुःखैरास्ते समाकुल.
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना
सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरंतरम्
गर्भवासात्परो वासः कष्टो नैवास्ति कुत्रचित् 4.4.
इत्येतद्गर्भदुःख हि प्राणिनां परिकीर्तितम्
गर्भात्कोटिगुणं दुःखं योनियंत्रप्रपीडनात्
शरवत्पीड्यमानस्य यंत्रेणेव समंततः
यंत्रेण पीडिता यद्वन्निःसाराः स्युस्तिलेक्षवः
अस्थिमज्जात्वचामांसस्नायुबंधेन यंत्रितम्
केशलोमतृणाच्छन्नं रोगायतनमातुरम्