दुर्गस्त्रिकूटः परिखाः समुद्रा रक्षांसि योधा धनदाच्च वित्तम्
संग्रामे गजतुरगसमाकुलेऽपि वादादग्नौ वा गतविवरे महोदधौ वा
पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम्
रोदिति कश्चिदथाश्रुधौताननगुरुतरशोकविह्वलः
गायति हृदयहारि सुखनिर्भरमायतविस्तृताऽधरोऽधिकम्
इत्येवं धर्ममुद्दिश्य विष्णुः संसारचेष्टितम्
इत्युक्ता चारुसर्वांगी स बभूवाचलः पुमान् 4.3.
सोऽपि राजा ददर्शाथ तं समंत्रिपुरोहितः
नारदं मुनिशार्दूलं जटाभारभयानकम्
शिखा कमण्डलुधरं वीणादण्डकरं तथा पादुकाभ्यां स्थितं तीरे सरसो ब्राह्मणासने
संप्रगृह्य कराग्रेण जगामादर्शनं हरिः
श्वेतद्वीपमथासाद्य प्राह देवो मुनिं नृप
माया ययेदृशी माया यत्स्वरूपा यदात्मिका
एवमुक्त्वा मुनिवरं देवदेवो जनार्दनः
संसारदोषवर्णनम् प्राप्नोति पुरुषः केन गर्भवासं सुदारुणम्
गर्भस्थश्च किमश्नाति कथमुत्पद्यते पुनः
बालभावे कथं पुष्टिः स्याद्युवा केन कर्मणा
कथं दारानवाप्नोति गृहं सर्वगुणैर्युतम्
कथं सुखेन म्रियते कथं भुंक्ते शुभाशुभम्
अशुभैः कर्मभिर्ज्जंतुस्तिर्यग्योनिषु जायते
प्रमाणं श्रुतिरेवात्र धर्माधर्मविनिश्चये
ऋतुकाले तदा भुक्तं निर्दोषं येन संस्थितम्
विसर्गकाले शुक्रस्य जीवः करणसंयुतः
तच्छुक्ररक्तमेकस्थमेकाहात्कललं भवेत् 4.4.
बुद्बुदं सप्तरात्रेण मांसपेशी भवेत्ततः
बीजस्येवांकुराः पेश्याः पञ्चविंश तिरात्रतः
ग्रीवा शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम्
त्रिभिर्मासैः प्रजायंते सद्रव्यांकुरसंधयः
मुखं नासा च कर्णौ च जायन्ते पञ्च मासकैः
कर्णौ च रंध्रसहितौ षण्मासाभ्यंतरेण तु