दिव्यावसथरम्येषु वेलाकूलेषु पार्थिवः
ततस्त्रयोदशे वर्षे तस्या गर्भोऽभवन्महान्
तद्भेदाहतकुंभेषु बीजप्रारोहणान्नराः
पंचाशत्संख्यया जाता उपसर्गादिवर्जिताः
तेषां पुत्राश्च पौत्राश्च बभूवुः सुरसत्तमाः
हयैरन्यैर्गजैरन्यैः क्रोधांधाः कौरवा इव
सपदातिगजारोहाः सांतःपुरयुगेच्छया 4.3.
सासिसबलविस्ताराः सदर्पाः समहोच्छ्रयाः
संदृश्य नारदीयैषा विनष्टं स्वकुलं रणे
हा दैव हा विधे पाप हा कृतान्त नमस्कृत
इत्युक्त्वा स्वमुरोहस्तैर्जघान भृशदुःखिता
सोऽपि राजा विषण्णोऽसौ निर्विण्णः शोकसागरे
विषण्णो मंत्रिभिः सार्धं वृद्धशोकेन संयुतः
द्विजवेषपरिच्छन्न उपविष्टः सुखासने
किं रोदनेन बहुना युवयोः क्लेशकारिणा
शोभने यादृशः शोकः कृतः संसारसागरे
पुरंदरसहस्राणि चक्रवर्तिशतानि च 4.3.
येऽपि शोषयितुं शक्ताः समुद्रं ग्राहसंकुलम्
कुर्युश्च करयुग्मेन चूर्णं मेरुं महीतले
ऊद्धर्तुं धरणीसंज्ञां ग्रहीतुं चन्द्रभास्करौ
दुर्गस्त्रिकूटः परिखाः समुद्रा रक्षांसि योधा धनदाच्च वित्तम्
संग्रामे गजतुरगसमाकुलेऽपि वादादग्नौ वा गतविवरे महोदधौ वा
पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम्
रोदिति कश्चिदथाश्रुधौताननगुरुतरशोकविह्वलः
गायति हृदयहारि सुखनिर्भरमायतविस्तृताऽधरोऽधिकम्
इत्येवं धर्ममुद्दिश्य विष्णुः संसारचेष्टितम्
इत्युक्ता चारुसर्वांगी स बभूवाचलः पुमान् 4.3.
सोऽपि राजा ददर्शाथ तं समंत्रिपुरोहितः
नारदं मुनिशार्दूलं जटाभारभयानकम्
शिखा कमण्डलुधरं वीणादण्डकरं तथा पादुकाभ्यां स्थितं तीरे सरसो ब्राह्मणासने