नाभिमंडलगांभीर्यं लावण्यं केन वर्ण्यते
नयने च पुनस्तस्या मृग्या इव सुशोभने
रंभायुग्मोपमावूरू स्मरबाणनिबंधनौ
नवकुन्दलतासारसरलं सनिबंधनम्
रक्तांगुलीलतातल्पनखचन्द्रकयाचितम्
सैवंविधा तदा नारी सर्वलक्षणपू जिता
क्षीरोदमथनोत्तीर्णा लक्ष्मीमन्याभिवोच्छ्रिताम् 4.3.
संप्राप्यते च सा कालसंगराहारिणी यथा
अथाजगाम तं देशं नाम्ना तालध्वजो नृपः
गजारूढैर्हयारूढै रथारूढैर्नरोत्तमैः
ध्वजातपत्रकलिलैरनीकैः परिवारितः
बभूव क्षणमात्रेण कंदर्पशरपीडितः
अदृष्टरूपाप्सरसा काचिद्देवी समागता
मुमूर्षुर्जायते मोहादनुदिग्धहतो यथा
उवाच नारीं मुग्धां तां शृणु मद्वचनं शुभे
इत्युक्ते साश्रु चार्वंगी प्राह मां विद्ध्ययोनिजाम्
निराश्रयां विदित्वैनां ततो जातः स्मरार्दितः 4.3.
नीत्वा विवाहयामास शास्त्रोक्तविधिना ततः
उद्यानभव्यभूमीषु नदीनां पुलिनेषु च
पद्मखंडेषु फुल्लेषु शोभितेषु सरस्सु च
दिव्यावसथरम्येषु वेलाकूलेषु पार्थिवः
ततस्त्रयोदशे वर्षे तस्या गर्भोऽभवन्महान्
तद्भेदाहतकुंभेषु बीजप्रारोहणान्नराः
पंचाशत्संख्यया जाता उपसर्गादिवर्जिताः
तेषां पुत्राश्च पौत्राश्च बभूवुः सुरसत्तमाः
हयैरन्यैर्गजैरन्यैः क्रोधांधाः कौरवा इव
सपदातिगजारोहाः सांतःपुरयुगेच्छया 4.3.
सासिसबलविस्ताराः सदर्पाः समहोच्छ्रयाः
संदृश्य नारदीयैषा विनष्टं स्वकुलं रणे
हा दैव हा विधे पाप हा कृतान्त नमस्कृत