वशिष्ठस्य मुनेर्नाम्ना विख्यातं श्रीमहोदयम्
स्थातव्यं पुरतस्तेषां तस्मात्स्नानं समाचरेत्
यत्तीर्थलोकं विख्यातं स्नात्वा तीरं समाश्रितः
आचम्य सस्नौ तीर्थेन क्षणात्तीर्थमवाप्य च
तावत्स्त्रीत्वं समापन्नो नारदः केन वर्ण्यते
स्मरपाशोपमौ कर्णौ कपोलौ कनकोज्ज्वलौ
दशना हीरकैस्तुल्या विद्रुमाभः शुभाधरः 4.3.
शंखरेखात्रयेणैव कंठदेशो विराजते
युतौ रक्तोत्पलाभासौ पाणी रक्तनखांगुली
स्तनावविरलौ स्निग्धौ चक्रवाकयुगोपमौ
नाभिमंडलगांभीर्यं लावण्यं केन वर्ण्यते
नयने च पुनस्तस्या मृग्या इव सुशोभने
रंभायुग्मोपमावूरू स्मरबाणनिबंधनौ
नवकुन्दलतासारसरलं सनिबंधनम्
रक्तांगुलीलतातल्पनखचन्द्रकयाचितम्
सैवंविधा तदा नारी सर्वलक्षणपू जिता
क्षीरोदमथनोत्तीर्णा लक्ष्मीमन्याभिवोच्छ्रिताम् 4.3.
संप्राप्यते च सा कालसंगराहारिणी यथा
अथाजगाम तं देशं नाम्ना तालध्वजो नृपः
गजारूढैर्हयारूढै रथारूढैर्नरोत्तमैः
ध्वजातपत्रकलिलैरनीकैः परिवारितः
बभूव क्षणमात्रेण कंदर्पशरपीडितः
अदृष्टरूपाप्सरसा काचिद्देवी समागता
मुमूर्षुर्जायते मोहादनुदिग्धहतो यथा
उवाच नारीं मुग्धां तां शृणु मद्वचनं शुभे
इत्युक्ते साश्रु चार्वंगी प्राह मां विद्ध्ययोनिजाम्
निराश्रयां विदित्वैनां ततो जातः स्मरार्दितः 4.3.
नीत्वा विवाहयामास शास्त्रोक्तविधिना ततः
उद्यानभव्यभूमीषु नदीनां पुलिनेषु च
पद्मखंडेषु फुल्लेषु शोभितेषु सरस्सु च