कृत्वापि कुशतंत्वग्रपवित्रकृत लक्षणम्
वैदिशं नाम नगरं वेत्रवत्यास्तटे शुभम्
गोमहिष्यजसंपूर्णं पाशुपाल्येन संस्थितः
गृहकर्मणि तन्निष्ठः सीरभद्र इति स्मृतः
तेनाप्यासनसन्मानैः समर्थेन कृतादरौ
न वास्मदीयं युष्माकं रोचतेन्नं ततो हरिः
उन्नाम्य वक्त्रं चोवाच देवसंस्तुतया गिरा 4.3.
पशुपाशगृहासक्ताः शतार्द्धबलवाहनाः
त्वञ्च वृत्तिशतैर्न्नित्यं वर्द्धस्व स्वजनावृतः
क्षेत्रे गोस्वामिनामानं द्विजं ददृशतुश्च तौ
भागीरथ्यास्तटे रम्ये वेणिकाग्रामसन्निधौ
ताभ्यां संप्रार्थितो विप्रो भोज्यं प्रादाच्च किंचन
इत्युक्तोऽसौ द्विजश्रेष्ठो हलकर्म विधाय तत्
चक्रे चैवादरं भक्त्या स्वयमासनसत्क्रियाम्
सह पत्न्या सतनयो भोज्यं भुक्तिं चकार सः
प्रयातौ ददतुः श्रेष्ठं वरं तस्मै द्विजातये
मा धान्यं मखसंतान मत्प्रसादाद्विजोत्तम 4.3.
किमिदं वद देवेश शापरूपो वरस्त्वया
इत्युक्तः प्राह देवेशः शृणु नारद मद्वचः
संवत्सरेण यत्पापं मत्स्यघाती समाचरेत्
अतोऽर्थं कृषिपाल्येन नरकं याति लांगली
मयि भुक्ते प्रसन्ने वा को विशेषोऽस्य नारद
इदानीं हलकालुष्यैः सीरभद्रो विचेष्टितैः
सपुत्रपौत्रसंतानो हृतोर्थस्तद्गृहे मया
सोऽपि द्विजो मुनिश्रेष्ठ संसारादुत्तरिष्यति
कान्यकुब्जस्य सामीप्ये सरः श्रेष्ठमपश्यताम्
पद्मिनीजलकह्लाररक्तोत्पलसितोत्पलैः 4.3.
तटै रम्यैर्घनैर्वृक्षैः केतकीखण्डमंडितम्
दात्यूहशिखिभारुण्डचकोराद्यैश्च संकुलम्
जलकुक्कुटसंगीतं हंससारसशोभितम्