यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये
प्रतिलीनेषु भूतेषु विबुद्धः सकलं जगत्
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते
भूर्दशगुणेन पयसा संवृता तच्च तेजसा
भूतादिना तथाकाशं भूतादिर्महतावृतः
एवं विधानामण्डानां सहस्राणि शतानि च 4.2.
वैकुण्ठकोष्ठगतमेतदशेषतायां ख्यातं जगत्सुरनरोरगसिद्धनद्धम्
मायादर्शनवर्णनम् कीदृशी कृष्ण सा माया विष्णोरमिततेजसः
वासुदेवः सगरुडः सचक्रश्च श्रिया सह
नीलोत्पलदलश्यामः कुंडलाभ्यां विभूषितः
तस्य द्रष्टुमथाभ्यागान्नारदो मुनिसत्तमः
संशयं परिपृच्छामि भगवन्वक्तुमर्हसि
तस्या दर्शय मे रूपं मायायाः पुरुषोत्तम
आब्रह्मस्तंबपर्यंतं सदेवासुरमानुषम्
एवमुक्तस्तु मुनिना देवदेवो जनार्दनः
भूयोऽपि मोहयामास सोमग्राहेण नारदम्
मायां दर्शय मे देव नान्यदस्ति प्रयोजनम् 4.3.
अडुल्यग्रेण संगृह्य नारदं मुनि पुङ्गवम्
ऋग्वेदसदृशः साक्षाद्विष्णुर्ब्रह्मवदास्थितः
शिखी कमंडलुधृतो मृगचर्मोपवीतकः
कृत्वापि कुशतंत्वग्रपवित्रकृत लक्षणम्
वैदिशं नाम नगरं वेत्रवत्यास्तटे शुभम्
गोमहिष्यजसंपूर्णं पाशुपाल्येन संस्थितः
गृहकर्मणि तन्निष्ठः सीरभद्र इति स्मृतः
तेनाप्यासनसन्मानैः समर्थेन कृतादरौ
न वास्मदीयं युष्माकं रोचतेन्नं ततो हरिः
उन्नाम्य वक्त्रं चोवाच देवसंस्तुतया गिरा 4.3.
पशुपाशगृहासक्ताः शतार्द्धबलवाहनाः
त्वञ्च वृत्तिशतैर्न्नित्यं वर्द्धस्व स्वजनावृतः
क्षेत्रे गोस्वामिनामानं द्विजं ददृशतुश्च तौ