तन्मात्राणि च पञ्चाहुरहङ्काराच्च सात्त्विकात्
जलमूर्तिमये विष्णौ नष्टे स्थावरजंगमे
सृष्ट्यां शक्त्या च निर्भिन्नं तदण्डमभवद्द्विधा
उल्बं तस्याभवन्मेरुर्जरायुः पर्वताः स्मृताः
योजनानां सहस्राणि षोडशाधः प्रतिष्ठित भूमिपंकजविस्तीर्णा कर्णिका मेरुरुच्यते
आदित्यश्चादिदेवत्वात्तत्राभूत्त्रिगुणात्मकः रुद्रोऽपराह्णसमये स एवैकस्त्रिधामतः ।। 4.2.
प्रातः प्रजापतेर्जाता मुनयो नव मानवाः भृगुर्वशिष्ठ इत्यष्टौ नारदो नवमः स्मृतः
नव ब्रह्माण इत्येष पुराणे निश्चयः स्मृतः
वामा प्रसूतिरुदगादंगुष्ठात्तौ च दंपती सृष्टिं प्रति समुद्युक्ता नारदेन महात्मना
दक्षः क्षीणान्सुतान्वीक्ष्य जनयामास कन्यकाः
ददौ स दश धर्माय कश्यपाय त्रयोदश
द्वे प्रादाद्बाहुपुत्राय द्वे कृशाश्वाय चैव हि
एकां भृगोर्भवायैकां प्रादात्तेभ्यश्चराचरः
वैराजमथ वैकुण्ठं केलासमिति नामतः
प्राचीदिक्क्रमयोगेन तेषां पार्श्वे पुरः स्मृताः
हिमवान्हेमकूटश्च निषधो मेरुरेव च जम्बूद्वीपप्रमाणेन सहस्रगुणितं शतम् ।। 4.2.
भिद्यते नवधा सोऽपि वर्षभेदेन भारत द्वीपाः सप्त समाख्याताः समुद्रे सप्तभिर्वृताः
क्षारक्षीरेक्षुसुरया दध्ना चैव घृतेन च
भूर्लोकोऽथ भुवर्लोकः स्वर्महर्ज्जन इत्यपि
महातलो भूमितलः सुतलो वितल स्ततः
हिरण्याक्षप्रभृतयो दानवेन्द्रा महोरगाः
स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषोऽभवत्
वैवस्वतोऽयमधुना वर्तते मनुरुत्तमः
आदित्या वसवो रुद्रा एकादश तथाश्विनौ
विप्रचित्तिहिरण्याख्यौ दैत्यदानवसत्तमौ
पञ्चाशद्गुणितकोटियोजनानां महत्तया 4.2.
पिण्डेन च सहस्राणि सप्ततिर्जलमध्यतः
लोका लोकः परतरः पर्वतोऽग्रमहोच्छ्रयः
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः
उत्पद्यते स्वयं यस्मात्तत्तस्मिन्नेव लीयते