भगवंस्त्वत्प्रसादेन प्राप्तं राज्यं महन्मया
सरोगस्य यथा भोगः प्राप्तोऽपि न सुखावहः
यत्सुखं पावनं प्रीतिर्वनमूलफलाशिनाम्
यो नो बन्धुर्गुरुर्गोप्ता सदा शर्म च वर्म च
अविवेकमहं धास्ये मनो मे पापपङ्किलम्
संश्रुतानि पुराणानि वेदास्सांगा मया विभो 4.1.
एते सधर्मगोप्तारो मुनयः समुपागताः
अर्थशास्त्राणि यावंति धर्मशास्त्राणि यानि वै
स्वर्गं गते शान्तनवे भवान्कृष्णोऽथ यादवः
सत्यं सत्यवतीसूनुर्धर्मराजाय वक्ष्यति
व्यास उवाच यदाख्येयं तदाख्यातं मया भीष्मेण तेऽनघ
धर्मज्ञो ह्यसि मेधावी गुणवान्प्रा ज्ञसत्तमः
पार्श्वस्थिते हृषीकेशे केशवे केशिसूदने
कर्ता पालयिता हर्ता जगतां यो जगन्मयः
समादिश्येति कर्तव्यं भगवान्बादरायणः
स्वाभाष्य भारतविधातरि संप्रयाते ते कौतुकाकुलधियो मुनयः प्रशान्ताः 4.1.
ब्रह्माण्डोत्पत्तिवर्णनम् युधिष्ठिर उवाच कस्य प्रतिष्ठा निर्दिष्टा को हेतुः किं परायणम्
कति द्वीपाः समुद्राश्च कियंतो हि कुलाचलाः
श्रुतोऽनुभूतश्च मया संसारे सरता चिरम्
अजाय विश्वरूपाय निर्गुणाय गुणात्मने
अत्र ते वर्णयिष्यामि शृणु पार्थ पुरातनम् पृष्टो यदुत्तरं प्रादादृषिभ्यस्तन्मया श्रुतम्
धन्यं यशस्यमायुष्यं सर्वाशुभविनाशनम्
एकात्मकं त्रिदैवत्यं चतुःपंचसुलक्षणम्
एक एव जगद्योनिः प्रतियोनिषु संस्थितः
ब्रह्मा विष्णुर्वृषांकश्च त्रयो देवाः सतां मताः
प्रक्रिया चानुषंगश्च उपोद्धातस्तथैव च 4.2.
तर्कश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
एष वक्तव्यविषयः सुमहान्प्रतिभाति मे
महदादिविशेषान्तं सवैरूप्यं सलक्षणम्
अव्यक्ताज्जायते बुद्धिर्महानिति च सा स्मृता