नगरे चन्द्रहृदये रणधीरो नृपोऽभवत्
तत्र वैश्योऽवसद्धर्मी नाम्ना धर्मध्वजो धनी
एकदा नगरे तस्मिन्यातुभक्तो नरोऽभवत्
वाशरो नाम तत्रासीद्राक्षसः पुरुषादनः
प्रसन्नो राक्षसो भूत्वा यातुभक्तं तमब्रवीत्
स होवाच वरो मह्यं देयस्ते पुरुषादक
इति श्रुत्वाकरोद्गर्तं नर बुद्धिविमोहनम्
तेन रात्रौ तु चौर्येण नृपदासी वरांगना
सप्तपत्न्योऽभवंस्तस्य चतुर्वर्णस्य योषितः
नृपदुर्गसमं गेहं रचितं तेन रक्षसा 3.2.13.
चोरितं बहुधा द्रव्यं गर्ते संस्थापितं बलात्
त्यजाम नगरीं भूप चौरविघ्नकरीं तव स्थापिता नगरे तस्मिश्चौरहिंसापराय णाः
आज्ञाप्य स ययौ गेहं तैस्तु श्रुत्वा तथा कृतम्
राक्षस्या मायया सर्वे मोहिता रक्षिणस्तदा
पुनस्ते प्रययुर्भूपं रणधीरं समेरयन्
अर्धरात्रे तमोभूते स चौरो नृपमागतम्
नृपोऽब्रवीदहं चौरश्चोदितार्थः समागतः
मया सार्द्धं च बहुधा द्रव्यं हर सुखी भव
गर्तमध्ये गतो रात्रौ स्थापयित्वा नृपं बहिः
भूपतिं प्राह भो राजन्गच्छ शीघ्रं स्वकं गृहम् 3.2.13.
इत्युक्त्वा सा तु भूपाय मार्गभेदमदर्शयत्
आययौ सेनया सार्द्धं यत्र चौरः स्वयं स्थितः
संपूज्य वर्णयामास यथा जातं तथाविधि ।। विहस्याह च रक्षस्तं त्वया मे भोजनं कृतम्
अद्य भक्ष्याम्यहं सर्वान्मानुषान्दैवचोदितान्
चखाद बहुलां सेनां तेपि याता दिशो दश
तदा चौरः स्वयं प्राप्य भूपतिं प्राह रोषतः
इति श्रुत्वा नृपश्चैव तूर्णमागत्य तत्र ह
रक्षसा सह तद्गर्तं भस्मसादभवत्क्षणात्
तथा सर्वधनैः सार्धं स्त्रीभिस्ताभिः समाययौ
पटहाताडितेनैव शब्देन च गृहेगृहे 3.2.13.