वर्णस्य शबलत्वाच्च यमः कल्माष उच्यते
स्थितो दक्षिणत तस्य दंडहस्तसमन्वितः
कुबेरो धनदो ज्ञेयो हस्तिरूपो विनायकः कुबेरः कुशरीरत्वात्स नाम्ना धनदः स्मृतः
नायकः सर्वसत्त्वानां तेन नायक उच्यते
रैवतश्चैव दिंडिश्च तौ रवेः पूर्वतः स्थितौ 1.124.
प्लुतं गच्छत्यसौ यस्मात्सर्वलोकनमस्कृतः
डीङ्गतावस्य वै धातोर्दिंडिशब्दो निपात्यते
इत्येते प्रवराः प्रोक्ता धात्वर्था नैगमैः शुभैः
अश्विनौ तौ ततो ज्ञेयौ दंडनायकपिंगलौ
रेवतश्चैव दिंडिश्च इत्येते प्रवरा मया
इत्येभिर्नामभिस्त्वन्ये दानवानां जिघांसया
सरूपाश्चान्यरूपाश्च विरूपाः कामरूपिणः
धातुर्दिविति वै प्रोक्तो क्रीडायां स तु उच्यते
ऋचो यजूंषि सामानि यान्युक्तानीह वै मया
ते श्रुत्वाराध्य देवेशं संसिद्धा दिवि संस्थिताः ।। 1.124.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मर्षिसंवादे प्रवरवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः
व्यासागमनवर्णनम् श्रीगणेशाय नमः श्रीसरस्वत्यै नमः ॐ नमो भगवते वासुदेवाय कल्याणानि ददातु वो गणपतिर्यस्मिन्नतुष्टे सति क्षोदीयस्यपि कर्मणि प्रभवितुं ब्रह्मापि जिह्मायते
शश्वत्पुण्यहिरण्यगर्भरसनासिंहासनाध्यासिनी सेयं वागधिदेवता वितरतु श्रेयांसि भूयांसि वः
नमस्तस्मै विश्वोदयविलयरक्षाप्रकृतये शिवाय क्लेशौघच्छिदुरपद् पद्मप्रणतये
यस्य गण्डतले भाति विमला षट्प दावली
ॐ नमो वासुदेवाय सशार्ङ्गाय सकेतवे
नमः शिवाय सोमाय सगणाय ससूनवे
शिवं ध्यात्वा हरिं स्तुत्वा प्रणम्य परमे ष्ठिनम्
छत्राभिषिक्तं धर्मज्ञं धर्मपुत्रं युधिष्ठिरम्
मार्कण्डेयः समाण्डव्यः शाण्डिल्यः शाकटायनः
जामदग्न्यो भरद्वाजो भृगु र्भागुरिरेव च 4.1.
पुलस्त्यः पुलहो दाल्भ्यो बृहदश्वः सलोमशः
तानृषीनागतान्दृष्ट्वा वेदवेदाङ्गपारगान्
युधिष्ठिरः संप्रहृष्टः समुत्थायाभिवाद्य च
उपविष्टेषु तेष्वेव तपस्विषु युधिष्ठिरः