तथा च सप्तमीकल्पः सर्वपापभयापहः
भगलोकं समासाद्य त्रिषु लोकेषु गीयते
तस्मादपि महाबाहो गच्छेल्लोकं दिवाकरम्
ऋतस्य च ततो गच्छेत्कंजजस्य ततः परम्
श्रवणात्फलमाप्नोति पितामहवचो यथा
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे आदित्यमाहात्म्यवाचकमाहात्म्यपुराण श्रवण विधिवर्णनं नाम षोडशाधिकद्विशततमोऽध्यायः
ब्रह्मोवाच व्योम्नः परं तिष्ठति यस्तु मग्नः स मुच्यते रुद्र इहापि दिंडी
स्थित्वा पुरा ब्रह्मशिरः किलासौ प्रगृह्य तत्तस्य शिरःकपालम्
नग्नो यदा दारुवने मुनीनां दृष्ट्वा च तं भैक्ष्यचरं सुरेशम् विहाय दिंडिः स तु तान्सुरर्षींस्ततो रवेर्लोकमथाजगाम
आगच्छमानं प्रमथास्तमूचुर्देवेश नित्यं भ्रमसे किमर्थम्
ते भूय ऊचुः प्रमथास्तमेवमत्रैव तिष्ठस्व रवेः पुरस्तात्
इत्येवमुक्तः प्रमथैस्तु रुद्रस्तत्रैव तस्थौ रवितोषणाय
उक्तः स तुष्टेन ततः सवित्रा प्रीतोस्मि देवागमनात्तवाहम्
अष्टादशैते प्रमथास्तु भानोश्चतुर्दशान्ये तु रवे रथस्थाः
यक्षौ च सिद्धौ च निशाचरौ चादित्यात्मजावप्सरसां प्रधानौ 1.124.
इत्यादिदेवप्रवरास्तु सर्वे धात्वर्थशब्दैश्च भवंति सिद्धाः
यतश्च कौतुकं ब्रह्मन्नस्माकमिह जायते
ब्रह्मोवाच भूयस्तव प्रवक्ष्यामि दंडनायकपिंगलौ
मया सह समागम्य पुरा देवैर्विचारितम्
ते तु लब्धवरा भूत्वा अमात्याद्या ह्यभीक्ष्णशः
तस्मात्तेषां विघातार्थं प्रवराश्च भवामहे
संमंत्र्यैवं ततः स्कंदो वामपार्श्वे रवेः स्थितः
उक्तश्च स तदार्केण त्वं प्रजादंडनायकः
लिखते यः प्रजानां च सुकृतं यच्च दुष्कृतम्
आश्विनौ चापि सूर्यस्य पार्श्वयोरुभयोः स्थितौ 1.124.
द्वारपालौ स्मृतौ तस्य राज्ञः श्रेष्ठौ महाबलौ
राजृदीप्तौ स्मृतो धातुर्नकारस्तस्य प्रत्ययः तस्मात्स कार्तिकेयस्तु नाम्ना राज्ञ इति स्मृतः
स्रु गतौ च स्मृतो धातुर्यस्य स प्रत्ययः स्मृतः
प्रथमं यद्भवेद्द्वारं धर्मार्थाभ्यां समाश्रितम्
द्वितीयायां तु कक्षायामप्रधृष्टौ व्यवस्थितौ