इत्थं द्वंद्वविनिर्मुक्तः स येषां वाचको नृप
आत्मना तु कथं वीर सुखमिच्छेद्विचक्षणः
वाचकश्रावकाणां च तस्माद्द्वंद्वं विघातयेत्
इत्थं पूज्यः सदा व्यासः श्रेयोऽर्थं प्रथमं नृप
श्रावकाणां तथा राजन्वाचकः पूज्य उच्यते
सौराणां च यथा भानुः शैवानां शंकरो यथा
दक्षिणां ददता नित्यं श्रोतव्यं भूतिमिच्छता 1.216.
यदा दातुं न शक्नोति माषकं कांचनस्य तु
तदभावे हिरण्यं च वित्तशाठ्यविवर्जितः
इत्येषा दक्षिणा नित्या मासिमासि भवेन्नृप
अमले वाससी राजन्गंधमाल्यविभूषणे
ज्ञात्वा सर्वसमाप्तिं तु पूजयेच्छ्रावको धुवम्
नैमित्तिकां च नित्यां च दक्षि णामप्रदाय च
यथा च दक्षिणाहीनाद्यज्ञान्न फलमश्नुते
चतुर्गुणा भवेद्राजन्या नित्या दक्षिणा विभो
इत्येष कथितो राजन्पुराणश्रवणे विधिः
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् 1.216.
फलदं नृपशार्दूल पुराणश्रवणं तथा
यथोक्तं तु यथा जीवं यथोक्तं ब्रह्मवादिना
यथाश्रुतं महाबाहो तथेदं कथितं तव
तथा च सप्तमीकल्पः सर्वपापभयापहः
भगलोकं समासाद्य त्रिषु लोकेषु गीयते
तस्मादपि महाबाहो गच्छेल्लोकं दिवाकरम्
ऋतस्य च ततो गच्छेत्कंजजस्य ततः परम्
श्रवणात्फलमाप्नोति पितामहवचो यथा
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे आदित्यमाहात्म्यवाचकमाहात्म्यपुराण श्रवण विधिवर्णनं नाम षोडशाधिकद्विशततमोऽध्यायः
ब्रह्मोवाच व्योम्नः परं तिष्ठति यस्तु मग्नः स मुच्यते रुद्र इहापि दिंडी
स्थित्वा पुरा ब्रह्मशिरः किलासौ प्रगृह्य तत्तस्य शिरःकपालम्
नग्नो यदा दारुवने मुनीनां दृष्ट्वा च तं भैक्ष्यचरं सुरेशम् विहाय दिंडिः स तु तान्सुरर्षींस्ततो रवेर्लोकमथाजगाम
आगच्छमानं प्रमथास्तमूचुर्देवेश नित्यं भ्रमसे किमर्थम्