देयं स्याच्छ्रावकैस्तात तं मुक्त्वा नान्यतो नृप
अदत्त्वा तस्य येन्यस्मै संप्रयच्छंति श्रावकाः
कृत्वावमानमथ तैः प्राप्यते यत्फलं नृप
शूद्रत्वं ब्राह्मणो याति क्षत्रियो याति काकताम्
तस्मात्पूज्यो नृपश्रेष्ठ प्रथमं वाचको बुधैः
वैशाख्यामयने वीर तृतीयायां च सुव्रत
पर्वस्वन्येषु च विभो संपूज्यो धर्मतः स्मृतः 1.216.
अन्नं चापि तथा पक्वं मांसं च कुरुनंदन
वाचकस्तु यथा नित्यं सुखमास्ते नराधिप
हेमंते लोमशा देयाश्छत्रं प्रावृषि सत्तम
इत्थं द्वंद्वविनिर्मुक्तः स येषां वाचको नृप
आत्मना तु कथं वीर सुखमिच्छेद्विचक्षणः
वाचकश्रावकाणां च तस्माद्द्वंद्वं विघातयेत्
इत्थं पूज्यः सदा व्यासः श्रेयोऽर्थं प्रथमं नृप
श्रावकाणां तथा राजन्वाचकः पूज्य उच्यते
सौराणां च यथा भानुः शैवानां शंकरो यथा
दक्षिणां ददता नित्यं श्रोतव्यं भूतिमिच्छता 1.216.
यदा दातुं न शक्नोति माषकं कांचनस्य तु
तदभावे हिरण्यं च वित्तशाठ्यविवर्जितः
इत्येषा दक्षिणा नित्या मासिमासि भवेन्नृप
अमले वाससी राजन्गंधमाल्यविभूषणे
ज्ञात्वा सर्वसमाप्तिं तु पूजयेच्छ्रावको धुवम्
नैमित्तिकां च नित्यां च दक्षि णामप्रदाय च
यथा च दक्षिणाहीनाद्यज्ञान्न फलमश्नुते
चतुर्गुणा भवेद्राजन्या नित्या दक्षिणा विभो
इत्येष कथितो राजन्पुराणश्रवणे विधिः
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् 1.216.
फलदं नृपशार्दूल पुराणश्रवणं तथा
यथोक्तं तु यथा जीवं यथोक्तं ब्रह्मवादिना
यथाश्रुतं महाबाहो तथेदं कथितं तव