सततं पूजयेद्यस्तु वाचकं श्रद्धया मुदा
य एवं शृणुयाद्वीर स ज्ञेयः सात्त्विको बुधैः
तस्मात्पूज्यतमो नान्यः श्रावकाणां नृपोत्तम
चतुर्णामिह वर्णानां नान्यो बन्धुः प्रचक्ष्यते
तस्मात्सर्वप्रयत्नेन पूजयेद्वाचकं सदा
वाचको नृपशार्दूल विप्रादीनामशेषतः
शृण्वंति ये नरा राजन्स तेषां गुरुरुच्यते । 1.216.
ये शृण्वंति नृपश्रेष्ठ मासि मासि ददंति ते
द्वादश्यां चामावास्यायामथ वा रविसंक्रमे
अयने विषुवे चैव चंद्रसूर्यग्रहे तथा
देयं स्याच्छ्रावकैस्तात तं मुक्त्वा नान्यतो नृप
अदत्त्वा तस्य येन्यस्मै संप्रयच्छंति श्रावकाः
कृत्वावमानमथ तैः प्राप्यते यत्फलं नृप
शूद्रत्वं ब्राह्मणो याति क्षत्रियो याति काकताम्
तस्मात्पूज्यो नृपश्रेष्ठ प्रथमं वाचको बुधैः
वैशाख्यामयने वीर तृतीयायां च सुव्रत
पर्वस्वन्येषु च विभो संपूज्यो धर्मतः स्मृतः 1.216.
अन्नं चापि तथा पक्वं मांसं च कुरुनंदन
वाचकस्तु यथा नित्यं सुखमास्ते नराधिप
हेमंते लोमशा देयाश्छत्रं प्रावृषि सत्तम
इत्थं द्वंद्वविनिर्मुक्तः स येषां वाचको नृप
आत्मना तु कथं वीर सुखमिच्छेद्विचक्षणः
वाचकश्रावकाणां च तस्माद्द्वंद्वं विघातयेत्
इत्थं पूज्यः सदा व्यासः श्रेयोऽर्थं प्रथमं नृप
श्रावकाणां तथा राजन्वाचकः पूज्य उच्यते
सौराणां च यथा भानुः शैवानां शंकरो यथा
दक्षिणां ददता नित्यं श्रोतव्यं भूतिमिच्छता 1.216.
यदा दातुं न शक्नोति माषकं कांचनस्य तु
तदभावे हिरण्यं च वित्तशाठ्यविवर्जितः
इत्येषा दक्षिणा नित्या मासिमासि भवेन्नृप