मधु पायसं कालशाकस्तिलाश्च कुतपस्तथा
दैवे कर्मणि पित्र्ये च स ज्ञेयः पंक्तिपावनः
एते सर्वे नृपश्रेष्ठ विज्ञेयाः पंक्तिपावनाः
इतिहासपुराणानि जयेति विदितानि वै जयोपजीवी तेनासौ गतः ख्यातिं तु वाचकः
विस्पष्टमद्भुतं शांतं स्पष्टाक्षरमिदं तथा
युध्यमानोथ वात्यर्थं ग्रंथार्थं कृत्स्नशो नृप
य एवं वाचयेद्राजन्य विप्रो व्यास उच्यते 1.216.
त्रिविधं वाचकं विद्यात्सदा गुणविभेदतः
द्वावेतौ कथ्यमानौ तु निबोध गदतो मम
पदच्छेदविहीनं च तथा भावविवर्जितम्
ईदृशं वाचयेद्यस्तु वाचकः क्ष्माधिपेश्वर
बुध्यते न च कष्टाच्च स ज्ञेयो वाचकाधमः
अबुध्यमानो ग्रंथार्थं वाचयेद्यस्तु वाचकः
विस्पष्टमद्भुतं शांतं स्पष्टाक्षरपदं तथा
अत्त्यर्थं बुध्यमानस्तु ग्रंथार्थं कृत्स्नशो नृप
य एवं वाचयेद्राजन्स ज्ञेयः सात्त्विको बुधैः
हेतुवादपरो राजंस्तथासूयासमन्वितः ।। 1.216.
वाचको यो महाबाहो शृणुयाद्यस्तु मानवः
न तस्य पुरतो वीर वाचये त्प्राज्ञ एव हि
राजन्कौतुकपात्रं तु स ज्ञेयो राजसो भवेत्
सततं पूजयेद्यस्तु वाचकं श्रद्धया मुदा
य एवं शृणुयाद्वीर स ज्ञेयः सात्त्विको बुधैः
तस्मात्पूज्यतमो नान्यः श्रावकाणां नृपोत्तम
चतुर्णामिह वर्णानां नान्यो बन्धुः प्रचक्ष्यते
तस्मात्सर्वप्रयत्नेन पूजयेद्वाचकं सदा
वाचको नृपशार्दूल विप्रादीनामशेषतः
शृण्वंति ये नरा राजन्स तेषां गुरुरुच्यते । 1.216.
ये शृण्वंति नृपश्रेष्ठ मासि मासि ददंति ते
द्वादश्यां चामावास्यायामथ वा रविसंक्रमे
अयने विषुवे चैव चंद्रसूर्यग्रहे तथा