ते धन्यास्ते महात्मानस्ते कृतार्था न संशयः
न शोभते पुरं वीर व्यासहीनं कदाचन
न राजते सरो यद्वत्पद्मिनी रहितं नृप
यथैकतो ग्रहाः सर्वे एकतस्तु दिवाकरः
यथा वेदसमो नास्ति आगमो भुवि कश्चन
कुरुक्षेत्रसमं तीर्थं न द्वितीयं प्रचक्षते
नाश्वमेधसमं पुण्यं न पापं ब्रह्महत्यया 1.216.११
तथा व्याससमो विप्रो न क्वचित्प्राप्यते नृप
नास्ति व्याससमः श्रेष्ठ इतीयं वैदिकी श्रुतिः उपविष्टो यदा भुंक्ते व्यासो वै विप्रमण्डले
श्राद्धे तात पवित्राणि कथितानि पुरा मम
मधु पायसं कालशाकस्तिलाश्च कुतपस्तथा
दैवे कर्मणि पित्र्ये च स ज्ञेयः पंक्तिपावनः
एते सर्वे नृपश्रेष्ठ विज्ञेयाः पंक्तिपावनाः
इतिहासपुराणानि जयेति विदितानि वै जयोपजीवी तेनासौ गतः ख्यातिं तु वाचकः
विस्पष्टमद्भुतं शांतं स्पष्टाक्षरमिदं तथा
युध्यमानोथ वात्यर्थं ग्रंथार्थं कृत्स्नशो नृप
य एवं वाचयेद्राजन्य विप्रो व्यास उच्यते 1.216.
त्रिविधं वाचकं विद्यात्सदा गुणविभेदतः
द्वावेतौ कथ्यमानौ तु निबोध गदतो मम
पदच्छेदविहीनं च तथा भावविवर्जितम्
ईदृशं वाचयेद्यस्तु वाचकः क्ष्माधिपेश्वर
बुध्यते न च कष्टाच्च स ज्ञेयो वाचकाधमः
अबुध्यमानो ग्रंथार्थं वाचयेद्यस्तु वाचकः
विस्पष्टमद्भुतं शांतं स्पष्टाक्षरपदं तथा
अत्त्यर्थं बुध्यमानस्तु ग्रंथार्थं कृत्स्नशो नृप
य एवं वाचयेद्राजन्स ज्ञेयः सात्त्विको बुधैः
हेतुवादपरो राजंस्तथासूयासमन्वितः ।। 1.216.
वाचको यो महाबाहो शृणुयाद्यस्तु मानवः
न तस्य पुरतो वीर वाचये त्प्राज्ञ एव हि
राजन्कौतुकपात्रं तु स ज्ञेयो राजसो भवेत्