नमस्कारादयः श्राव्या शिवमस्त्विति वोद्यते
शूद्राणां पुरतो वैश्या वैश्यानां क्षत्रिणस्तथा ये च संकरजा राजन्नरास्ते शूद्रपृष्ठतः
ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरेत्
इत्थं हि शृण्वतां तेषां वर्णानामनुपूर्वशः
श्रेयोऽर्थमात्मनो राजन्पूजयेद्वाचकं बुधः
ब्राह्मणेन महाबाहो द्वे देये क्षत्रियस्य तु
शूद्रेणैव च चत्वारो दातव्याः स्वर्णमाषकाः
प्रथमे पारणे राजन्वाचकं पूज्य शक्तितः
कार्तिकादीन्समारभ्य यावत्कार्त्तिकमच्युत 1.216.
सौत्रामणिं वाजपेयं वैष्णवं च तथा विभो
आदित्ययज्ञस्य तथा राजसूयाश्वमेधयोः इत्थं यज्ञफलं प्राप्य याति लोकांस्तथोत्तमान्
वज्रवेदिकसंपन्नं मणिरत्नविभूषितम्
ततश्चंद्रस्य भवने वारुणे भवने ततः
धिषणस्य गृहं गत्वा ततश्चित्रशिखंडिनः एवमेव नृपश्रेष्ठ नात्र कार्या विचारणा
फलमेतत्समुद्दिष्टं शृण्वतां सततं नृणाम्
एतानि परिमाणानि वत्सरेण भवंति वै
एकं च द्वे तथा त्रीणि चत्वारि च विशांपते
ब्राह्मणाद्यैर्नृप श्रेष्ठ सर्ववर्णविभागशः
वाचकं ब्राह्मणं चैव सर्वकामैः प्रपूजयेत् 1.216.
वाचकाय प्रदत्त्वा तु ततो विप्रान्प्रपूजयेत्
दत्त्वा च वाचकायेह श्रुतस्य प्राप्यते फलम् तथा श्रुतं नृपश्रेष्ठ सदक्षिणमुदाहृतम्
वाचकं पूजयेद्यस्मा त्पश्चाल्लेखकपूजनम्
वाचकः पूजितो येन पूजितास्तेन देवताः
इति वेधाः सदा प्राह देवानां पुरतः पुरा न तुल्यं वाचकेनेह पात्रदानस्य विद्यते
तिष्ठंति यस्य शास्त्राणि जिह्वाग्रे पृथिवीपते
न तुल्यं विद्यते तेन भुवि पात्रं नरेषु वै श्राद्धे यस्य द्विजो भुंक्ते वाचकः श्रदयान्वितः
यथेह सर्वदेवानां भास्करः प्रवरः स्मृतः कलस्वरसमायुक्तं रसभावसमन्वितम्
बुध्यमानः सदात्यर्थं ग्रंथाथं कृत्स्नशो नृप 1.216.
य एवं वाचयेद्राजन्य विप्रो व्यास उच्यते
इत्थंभूतो वसेद्यस्मिन्वाचको व्याससन्निभः