श्रवणे तु महाबाहो श्रूयतां यन्मया पुरा
हंत ते कथयाम्येष पुराणश्रवणे विधिम् मुच्यते सर्वपापेभ्यो ब्रह्महत्यादिभिर्विभो
सायं प्रातस्तथा रात्रौ शुचिर्भूत्वा शृणोति यः
प्रत्यूषे भगवान्ब्रह्मा दिनांते तुष्यते हरिः पारणानि दशाहेषु एके कुर्वंति तानि भोः
भवेद्वै राजशार्दूल शृणु तेषां च यत्फलम्
शुद्धवासा गृहादेत्य स्थानं यत्समयान्वितम्
नात्युच्चं नातिनीचं च ह्यासनं भजते ततः
वन्दनीयं प्रपूज्य च श्रोतृभिः कुरुनन्दन
न स्थेयं श्रावकैस्तस्माद्वाचकस्यासने नृप 1.216.
यथा शिशुर्गुरोर्वीर स तेषां हि गुरुर्मतः
उप विश्य ततः पश्चाच्छ्रावकः शृणुयान्नृप
प्रणम्य शिरसा तस्य पुस्तकस्य विशांपते पुनर्बध्नीत तत्सूत्रं तन्मुक्त्वा वाचयेत्क्वचित्
त्रिविधं पुस्तकं विद्यात्सूत्रं वासुकिरुच्यते
शंकरश्च तथा सूत्रं पंक्तयः सर्वदेवताः
अग्रे स्थिता ग्रहाः सर्वे दिशो वापि तथा विभो
यंत्रद्वयं काष्ठमयमधोर्ध्वं यदुदाहृतम्
इत्थं देवमयं ह्येतत्पुस्तकं देवपूजितम्
योऽस्य सूत्रं बृहत्कृत्वा प्रयच्छति नरोत्तमः
निरूप्य पात्रं राजेन्द्र कराभ्यां गृह्य वाचकः वाल्मीकिं च तथा राजन्विधिं विष्णुं शिवं रविम्।।1.216.
नमस्कारमथैषां तु पठित्वा कुरुनंदन।। ततोसौ व्याहरेद्विप्रान्वाचकः श्रदयान्वितः
अलंबितमतस्तब्धमद्भुतं वीरमूर्जितम्
सप्तस्वरसमायुक्तं कालेकाले विशांपते
ईदृशाद्वाचकाद्विप्राच्छ्रुत्वा श्रद्धासमन्वितः
नियमस्थः शुचिः श्रोता शृणुयात्फलमश्नुते
अश्वमेधमवाप्नोति सर्वान्कामानवाप्नुते गच्छेद्वापि परं स्थानं देवस्याद्भुतमुत्तमम्
स्नातैर्गृहं समागम्य श्रोतृभिर्वाचकस्य तु
आसनं च समाश्रित्य स्थातव्यं वाचकस्य तु
वाचकेन नमस्कारे कृते व्यासस्य भूपते
संशये सति प्रष्टव्यो वाचकः संप्रसाद्य तु 1.216.
वाचकेनापि वक्तव्यं यत्स्यात्तेषां निबोधनम्