विषयी यो हि भूपालस्तस्य राज्यविनाशनम्
राजंश्चूडापुरे रम्ये भूपश्चूडामणिः स्मृतः
देवस्वामी गुरुस्तस्य वेदवेदांगपारगः
शिवमाराधयामास पुत्रार्थे वरवर्णिनी
हरिस्वामीति विख्यातो जातो देवांशवान्बली
रूपलावण्यिका नाम्ना तत्पत्नी हि सुरांगना
एकदा पतिना सार्द्धं वसन्ते कुसुमाकरे
सुकलो नाम गंधर्वस्तस्या रूपेण मोहितः
प्रबुद्धः स तु तां नारीं मृगयामास विह्वलः
संन्यस्य विषयान्सर्वान्हरिध्यानपरायणः
प्रपच्य पायसमपि वटवृक्षमुपाश्रितः भोजनं च ततो राजन्सर्पेण गरलीकृतम् ।। 3.2.12.
ततो यतिः समायातो भुक्त्वा मदमुपाययौ
त्वया प्रदत्तं मूर्खेण पायसं विषमिश्रितम्
इत्युक्त्वा मरणं प्राप्य शिवलोकमुपाययौ
इत्युक्त्वा स तु वेतालो राजानमिदब्रवीत्
अतो दोषी हि भुजगो ब्रह्महत्यां न चाप्तवान्
बुभुक्षिते ददौ भिक्षां स द्विजो दैवमोहितः
आत्मना च कृतं पापं भोक्तव्यं सर्वदा जनैः
ब्रह्महत्या तदा ज्ञेया विषदत्तेन सा तथा
यैर्नरैः कथिता वार्ता ब्रह्महत्या त्वया कृता
नगरे चन्द्रहृदये रणधीरो नृपोऽभवत्
तत्र वैश्योऽवसद्धर्मी नाम्ना धर्मध्वजो धनी
एकदा नगरे तस्मिन्यातुभक्तो नरोऽभवत्
वाशरो नाम तत्रासीद्राक्षसः पुरुषादनः
प्रसन्नो राक्षसो भूत्वा यातुभक्तं तमब्रवीत्
स होवाच वरो मह्यं देयस्ते पुरुषादक
इति श्रुत्वाकरोद्गर्तं नर बुद्धिविमोहनम्
तेन रात्रौ तु चौर्येण नृपदासी वरांगना
सप्तपत्न्योऽभवंस्तस्य चतुर्वर्णस्य योषितः
नृपदुर्गसमं गेहं रचितं तेन रक्षसा 3.2.13.