भगः सूर्योर्यमश्चैव मित्रो वरुण एव च
त्वष्टा पूषा तथा रुद्रो द्वादशो विष्णुरुच्यते जया च विजया चैव जयंती चापराजिता महाश्वेता महादेवी राज्ञी चैव सुवर्चला
तथान्यो वापि देवानां समूहस्त त्र तत्र ह
पुरस्ताद्भासुरस्थाने स्थापनीया विजानता
स्थाप्या स्वदक्षिणे पार्श्वे लोकपूज्या समंततः
स्थाप्य बुद्धिमती नित्यं श्रीकामैर्वा विवस्वतः स्थाप्याश्च स्वोत्तरे पार्श्वे इत्येता देवशक्तयः
दीपश्चान्नमलंकारो वासः पुष्पाणि मन्त्रतः
विधिनानेन सततं सदा योर्चयति भास्करम्
अनेन विधिना यस्तु भोजयेद्भास्करं नृप सर्वरोगहरः शान्तो भव मे प्राशनं सदा ।। 1.216.
इत्थं प्राश्य जपेद्भूमौ देवस्य पुरतो नृप
भुञ्जीत वाग्यतः पश्चान्मधुरं क्षारवर्जितम्
कुर्वाणः सप्तमीमेतां सर्वरोगैः प्रमुच्यते
कृत्वोपवासं सप्तम्यां विधिवत्पूजयेद्रविम्
माहेश्वरेण विधिना पूजयेदत्र भास्करम्
दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति
देवस्य पुरतो दत्त्वा तथा चाम्रफलानि च
महातपो महाश्रेष्ठं भास्करस्य विशाम्पते
तथेदं परमं पर्व कथितं ब्रह्मसंज्ञितम्
अश्वमेधसहस्रस्य वाजपेयशतस्य च यत्फलं पृथिवीदाने तत्सर्वं प्राप्नुयान्नरः ।। 1.216.
राजसूयसहस्रस्य वाजपेयशतस्य च
लेखत्वं ब्राह्मणो गच्छेत्क्षत्रियो विप्रतां व्रजेत्
सूतमागध बन्द्याद्या ये चान्ये संकरोद्भवाः
इतिहासपुराणाभ्यां न त्वन्यत्पावनं नृणाम्
विधिना राजशार्दूल शृण्वतां यत्फलं किल
शतानीक उवाच भगवन्केन विधिना श्रोतव्यं भारतं नरैः
कथं तु वैष्णवा धर्माः शिवधर्मा अशेषतः
वाचनीयं कथं चापि वाचको द्विजसत्तम
स्वरूपं चास्य मे ब्रूहि खषोल्कस्य महात्मनः
पारणेपारणे पूज्यो वाचकः श्रावकैः कथम् 1.216.
न च किं कार्यसिद्धं यत्सिद्धं पर्वणि पर्वणि सुमन्तुरुवाच सम्यक्पृष्टोऽस्मि राजेन्द्र इतिहासपुराणयोः