हदयादिष्वथांगेषु मंत्रं विन्यस्य मंत्रवित्
कुर्यात्संमार्जनीं मुद्रां दिशां च प्रतिबोधनम्
अर्चनस्य प्रकारोऽयं सर्वेषामीप्सितप्रदः
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम्
खषोल्कं स्नापयेत्तत्र स्वरूपं लोभदायकम्
आग्नेय्यां दिशि देवस्य हृदयं स्थापयेन्नरः
पौरंदर्यां न्यसेन्नेत्रे एकामहृदयस्तु सः
ऐशान्यां स्थापयेत्सोमं पौरंदर्यां तु लोहितः
नैर्ऋत्यां दानवं शुक्रं वारुण्यां च शनैश्चरम् 1.216.
द्वितीयायां तु कक्षायां देवतेजःसमुद्भवान्
भगः सूर्योर्यमश्चैव मित्रो वरुण एव च
त्वष्टा पूषा तथा रुद्रो द्वादशो विष्णुरुच्यते जया च विजया चैव जयंती चापराजिता महाश्वेता महादेवी राज्ञी चैव सुवर्चला
तथान्यो वापि देवानां समूहस्त त्र तत्र ह
पुरस्ताद्भासुरस्थाने स्थापनीया विजानता
स्थाप्या स्वदक्षिणे पार्श्वे लोकपूज्या समंततः
स्थाप्य बुद्धिमती नित्यं श्रीकामैर्वा विवस्वतः स्थाप्याश्च स्वोत्तरे पार्श्वे इत्येता देवशक्तयः
दीपश्चान्नमलंकारो वासः पुष्पाणि मन्त्रतः
विधिनानेन सततं सदा योर्चयति भास्करम्
अनेन विधिना यस्तु भोजयेद्भास्करं नृप सर्वरोगहरः शान्तो भव मे प्राशनं सदा ।। 1.216.
इत्थं प्राश्य जपेद्भूमौ देवस्य पुरतो नृप
भुञ्जीत वाग्यतः पश्चान्मधुरं क्षारवर्जितम्
कुर्वाणः सप्तमीमेतां सर्वरोगैः प्रमुच्यते
कृत्वोपवासं सप्तम्यां विधिवत्पूजयेद्रविम्
माहेश्वरेण विधिना पूजयेदत्र भास्करम्
दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति
देवस्य पुरतो दत्त्वा तथा चाम्रफलानि च
महातपो महाश्रेष्ठं भास्करस्य विशाम्पते
तथेदं परमं पर्व कथितं ब्रह्मसंज्ञितम्
अश्वमेधसहस्रस्य वाजपेयशतस्य च यत्फलं पृथिवीदाने तत्सर्वं प्राप्नुयान्नरः ।। 1.216.
राजसूयसहस्रस्य वाजपेयशतस्य च