मुद्रा नु मालिनी चैव निर्दहेत्पापपञ्जरम्
विदर्भ्यांगुलयः सर्वा ईषन्मध्यस्तथाग्रतः
सर्वव्याधिहरा देवी सर्व शत्रुविनाशिनी
उभौ प्रसार्य वै हस्तौ मध्ये सार्धेन संस्थितौ 1.214.
मुद्रा गभस्तिनी नाम सूर्यस्य हृदयं परम्
अर्घ्यकाले तु बध्नीयादर्चयाग्निं प्रपूजयेत्
विदक्षिणकनिष्ठिक्यां तर्जनीभ्यां तथा भवेत् जपं यः कुरुते नित्यं त्रिभिर्मासैर्विशुद्यति
करौ तु संपुटौ कृत्वा तर्जन्यौ द्वे च कुञ्चयेत्
सहस्रकिरणा ह्येषा सर्वमुद्रेश्वरेश्वरी नाशयेत्सर्वपापानि तमोराशिमिवांशुमान्
मुद्रा मुद्रककुंभेति बद्ध्वा पश्चात्तु मंत्रयेत् इति मुद्रांगसहितं सूर्यं पूजयते तु यः
अनेन विधिना राजन्ब्रह्मा पूजयते रविम्
ततः सूर्यमवाप्येह सूर्यलोकं स गच्छति
स याति परमं स्थानं यत्र देवो दिवाकरः
भोजयित्वा यथाशक्ति ब्राह्मणांश्च विधानतः 1.214.
एकं गृहीत्वा मरिचमव्रणं च दृढं परम्
यथोक्तेन विधानेन पूजयित्वा दिवाकरम्
प्रियसंगमवाप्नोति तत्क्षणादेव नान्यथा
कुर्यादेकेन कामांस्तु वत्सरेण स गच्छति
कुरु तस्मान्महाबाहो त्वमेव प्रियदायिनीम्
संयोगं कृतवान्वीर सह शच्या विधानतः
रामोऽगात्सीतया सार्धमुपोष्यैनां नराधिप
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे मरिचसप्तमीव्रतवर्णनं नाम चतुर्दशाधिकद्विशततमोऽध्यायः
सूर्यमन्त्रोद्धारवर्णनम् निंबपत्रैः स्मृता या तु परमा रोगनाशिनी
यथार्चनविधिर्वान्यो येन पूजयते रविम्
अथार्चनविधिं वच्मि मंत्रोद्धारं निबोध मे
ॐ खषोल्काय नमः ॐ विटि २ शिरः ॐ सहस्रकिरणाय २०० ऊर्ध्वबंधः ॐ ज्वल २ प्रज्वल २ अग्निप्रकर
ॐ आदित्याय विद्महे विश्वभागाय धीमहि
आवाहनमंत्रः
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यमंत्रोद्धारवर्णनं नाम पञ्चदशाधिकद्विशततमोऽध्यायः
पुराणश्रवणविधिवर्णनम् प्रोक्षणीयं प्रयत्नेन किमर्थं सुसमाहितः