स सूर्याभिमुखो भूत्वा जपेन्मंत्रं तु साधकः
तं दृष्ट्वा नाश्नुते मृत्युं दुःखी न च न संशयः
उत्तानौ तु करौ कृत्वा पृष्ठलग्नौ परस्परम्
आक्रम्य चांगुलीमूलमंगुष्ठाभ्यां यथाक्रमम् 1.214.
द्वादशाद्वीक्षते सूर्यं दिनात्स हि न संशयः
उदया च विना वामं मध्यतश्चैव तं क्षिपेत्
मध्यमा विधिना तेन बद्ध्वा मुद्रां तु साधकः
मुद्रा सास्तमनी ह्येषा सर्वतन्त्रेश्वरी शुभा
सहस्रं हि शतं वापि मुद्रां बद्ध्वा जपेद्बुधः
करौ परस्परं लग्नावंगुष्ठौ चोर्ध्वसंस्थितौ
मुद्रा नु मालिनी चैव निर्दहेत्पापपञ्जरम्
विदर्भ्यांगुलयः सर्वा ईषन्मध्यस्तथाग्रतः
सर्वव्याधिहरा देवी सर्व शत्रुविनाशिनी
उभौ प्रसार्य वै हस्तौ मध्ये सार्धेन संस्थितौ 1.214.
मुद्रा गभस्तिनी नाम सूर्यस्य हृदयं परम्
अर्घ्यकाले तु बध्नीयादर्चयाग्निं प्रपूजयेत्
विदक्षिणकनिष्ठिक्यां तर्जनीभ्यां तथा भवेत् जपं यः कुरुते नित्यं त्रिभिर्मासैर्विशुद्यति
करौ तु संपुटौ कृत्वा तर्जन्यौ द्वे च कुञ्चयेत्
सहस्रकिरणा ह्येषा सर्वमुद्रेश्वरेश्वरी नाशयेत्सर्वपापानि तमोराशिमिवांशुमान्
मुद्रा मुद्रककुंभेति बद्ध्वा पश्चात्तु मंत्रयेत् इति मुद्रांगसहितं सूर्यं पूजयते तु यः
अनेन विधिना राजन्ब्रह्मा पूजयते रविम्
ततः सूर्यमवाप्येह सूर्यलोकं स गच्छति
स याति परमं स्थानं यत्र देवो दिवाकरः
भोजयित्वा यथाशक्ति ब्राह्मणांश्च विधानतः 1.214.
एकं गृहीत्वा मरिचमव्रणं च दृढं परम्
यथोक्तेन विधानेन पूजयित्वा दिवाकरम्
प्रियसंगमवाप्नोति तत्क्षणादेव नान्यथा
कुर्यादेकेन कामांस्तु वत्सरेण स गच्छति
कुरु तस्मान्महाबाहो त्वमेव प्रियदायिनीम्
संयोगं कृतवान्वीर सह शच्या विधानतः