एवं कृते शोधनं स्यात्पावकस्य न संशयः
आवाहितो भवेद्देवदेवः साक्षान्न संशयः
पञ्चाहुतीस्ततो दद्यादंगानां प्रीतये नृप
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरार्चनविधिवर्णनं नाम त्रयोदशाधिकद्विशततमोऽध्यायः
मरिचसप्तमीव्रतवर्णनम् अर्किणी ज्वालिनी चैव तेजनी च गभस्तिनी
शंखमुद्रा च दशमी सूर्य वक्त्रा तथापरा
दद्यादर्घ्यं तु पद्मिन्या व्योम बद्धा जपेद्बुधः
अर्किण्या पश्यते सूर्यं विधिस्थस्तु भवेद्यदि
सप्ताहाद्वीक्षते सूर्यं सिध्यते च ततः स्वयम्
जपञ्छतसहस्रं हि अक्षयं लभते निधिम्
अहोरात्रोषितो भूत्वा बद्ध्वा सूर्यमुखो नरः
पश्यते तु त्र्यहात्सूर्यं भवेत्सिद्धिश्च मानसी
जपेदयुतमात्रं तु भवेत्तद्गतमानसः
स पश्यति परं धाम भवेत्सिद्धिश्च पुष्कला 1.214.
सर्वतः कञ्चुकं मुक्त्वा भवेद्वै विगत ज्वरः
परौ गुल्फौ करौ कृत्वा संलग्नौ च परस्परम्
वामा दक्षिणया चैव दक्षिणा वामया तथा
बद्धया चानया सद्यो हीयंते व्याधयो नृणाम्
सर्वत्रैवोत्तमा ह्येषा मंत्रमुष्टिरिति स्मृता
बध्नीयात्सततं मन्त्रैरायुरारोग्यवृद्धये
स सूर्याभिमुखो भूत्वा जपेन्मंत्रं तु साधकः
तं दृष्ट्वा नाश्नुते मृत्युं दुःखी न च न संशयः
उत्तानौ तु करौ कृत्वा पृष्ठलग्नौ परस्परम्
आक्रम्य चांगुलीमूलमंगुष्ठाभ्यां यथाक्रमम् 1.214.
द्वादशाद्वीक्षते सूर्यं दिनात्स हि न संशयः
उदया च विना वामं मध्यतश्चैव तं क्षिपेत्
मध्यमा विधिना तेन बद्ध्वा मुद्रां तु साधकः
मुद्रा सास्तमनी ह्येषा सर्वतन्त्रेश्वरी शुभा
सहस्रं हि शतं वापि मुद्रां बद्ध्वा जपेद्बुधः
करौ परस्परं लग्नावंगुष्ठौ चोर्ध्वसंस्थितौ