कामांधो राक्षसं हत्वा स्वपत्नीं प्राह निर्भयाम्
साह भोः शृणु भूपाल विद्याधरसुता ह्यहम्
नागता भोजने काले पितृमात्रोश्च मंदिरे
अद्य कृष्णचतुर्दश्यां त्वां भजिष्यति राक्षसः
तदाहं रोदनं कृत्वा ब्रवीमि पितरं प्रति
स होवाच कुमारि त्वं वीरभुक्ता भविष्यसि
त्वदाज्ञयाहं यास्यामि भो राजन्पितृमंदिरे
त्वया सार्द्धं गमिष्यामि गृहं विद्याधरस्य तत् 3.2.11.
तदा तु नगरे तस्मिन्नृणां जातो महोत्सवः पञ्चत्वमगमत्तूर्णं कुतो हेतोर्हि तद्वद
नृपं स हृदि संध्यात्वा राज्यभंगभयातुरः
विषयी यो हि भूपालस्तस्य राज्यविनाशनम्
राजंश्चूडापुरे रम्ये भूपश्चूडामणिः स्मृतः
देवस्वामी गुरुस्तस्य वेदवेदांगपारगः
शिवमाराधयामास पुत्रार्थे वरवर्णिनी
हरिस्वामीति विख्यातो जातो देवांशवान्बली
रूपलावण्यिका नाम्ना तत्पत्नी हि सुरांगना
एकदा पतिना सार्द्धं वसन्ते कुसुमाकरे
सुकलो नाम गंधर्वस्तस्या रूपेण मोहितः
प्रबुद्धः स तु तां नारीं मृगयामास विह्वलः
संन्यस्य विषयान्सर्वान्हरिध्यानपरायणः
प्रपच्य पायसमपि वटवृक्षमुपाश्रितः भोजनं च ततो राजन्सर्पेण गरलीकृतम् ।। 3.2.12.
ततो यतिः समायातो भुक्त्वा मदमुपाययौ
त्वया प्रदत्तं मूर्खेण पायसं विषमिश्रितम्
इत्युक्त्वा मरणं प्राप्य शिवलोकमुपाययौ
इत्युक्त्वा स तु वेतालो राजानमिदब्रवीत्
अतो दोषी हि भुजगो ब्रह्महत्यां न चाप्तवान्
बुभुक्षिते ददौ भिक्षां स द्विजो दैवमोहितः
आत्मना च कृतं पापं भोक्तव्यं सर्वदा जनैः
ब्रह्महत्या तदा ज्ञेया विषदत्तेन सा तथा
यैर्नरैः कथिता वार्ता ब्रह्महत्या त्वया कृता