सौरार्चनविधिवर्णनम् द्वितीया मरिचैर्या तु शृणुष्व गदतो मम
शुक्लपक्षे तु चैत्रस्य षष्ठ्यां सम्यगुपोषितः
सूर्यादिहृदयं चापि शिरोन्यासयुतांस्तथा
यदुक्तं ब्रह्मणा पूर्वं भक्त्या भानोर्महात्मनः
सर्वपापक्षयार्थाय तच्छृणुष्व महामते
शिखादामसमायुक्तं वकारामृतमुत्तमम् ॐ एष सूर्यः स्वयं तात मंत्रमूर्तिर्महाबलः
अस्यानुस्मरणान्मंत्री नित्यं मधुरभोजनः
व्याधिमृत्योश्च निर्मुक्तः सूर्यलोकं स गच्छति
मनसा कर्मणा वाचा शापानुग्रहतोपि वा
जपित्वा द्वादशलक्षं सशरीरो दिवं व्रजेत् 1.212.
अथेदं परमं वामं सूर्यस्य हृदयं शृणु
वियुक्तं चंद्रसंयुक्तमृकारेण च भारत
यकारबिंदुसंयुक्तं वैशाखः कथितो बुधैः
इष्टं कवचमादिष्टमस्त्रं वक्ष्ये निबोध मे
इदमस्त्रं स्मृतं राजन्नमृतं च निबोध मे
ॐ ब्रह्मन्नस्त्रममृतं गायत्रीं चापि ते रोगं धेनुर्वै परिकीर्तितम्
व्यनेत्र एतान्यंगानि सूर्यस्यामिततेजसः
सावित्रीं कंठदेशे तु अशेषं मूर्ध्नि चिंतयेत्
प्राणायामे च तथा परिवीरसमन्वितम् 1.212.
पुनस्त्वामेव वध्यं तु वकारेणात्मना लभेत्
एतत्कृत्वादित्यसमो भवतीति न संशयः
प्रासादशोभनं स्याद्वै कृत्वा तद्भरतर्षभ
ततोर्घ्यपात्रं पुष्पैश्च पूजयेद्विधिवनृप
पद्ममुद्रा पुष्पगर्भा देवं शिरसि विन्यसेत्
हृदयेनार्घ्यसंयुक्तां पूजां बध्नीत भारत
यथाशक्ति जपं कुर्यात्सुव्रती वाग्यतेन्द्रियः
न क्वचित्प्रतिघातः स्यान्न चापि दुरितं भवेत्
देवं विसर्जयेत्पश्चाद्धृदयेन महीपते
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सौरार्चनविधिवर्णनं नाम द्वादशाधिकद्विशततमोऽ ध्यायः
सौरार्चनविधिवर्णनम् अव्यात्तु सपरीवारं घुकारं परिकीर्तयेत्