ज्येष्ठसाम्नोऽपि ते पुत्र लक्षणं कथयामि हि
तव श्राव्यं जपं पुत्रज्येष्ठगायै रविः सदा एवमाराध्य देवेशं ततो दुःखं प्रहास्यसि
आराधयामास रविं भक्त्या श्रद्धासमन्वितः
शृण्वतस्तु पुराणानि बह्महत्या गता तदा ।। व्याधिश्च कुरुशार्दूल फलमेतच्छ्रुतस्यवै ऽ
जपता यत्फलं तेन देवं पूजयता नृप
स गतो मूर्तिमान्विप्रः प्रसादाद्भास्करस्य तु
आवर्तते न चाद्यापि गतोसौ परमं पदम्
उपोष्येमां भवेद्वीर सप्तमीं याति भास्करम्
जपमानस्तु वै सोपि पुराणश्रवणस्तथा
अर्कस्य पुटिका पुण्या वित्तदा या प्रिया रवेः
सौरार्चनविधिवर्णनम् द्वितीया मरिचैर्या तु शृणुष्व गदतो मम
शुक्लपक्षे तु चैत्रस्य षष्ठ्यां सम्यगुपोषितः
सूर्यादिहृदयं चापि शिरोन्यासयुतांस्तथा
यदुक्तं ब्रह्मणा पूर्वं भक्त्या भानोर्महात्मनः
सर्वपापक्षयार्थाय तच्छृणुष्व महामते
शिखादामसमायुक्तं वकारामृतमुत्तमम् ॐ एष सूर्यः स्वयं तात मंत्रमूर्तिर्महाबलः
अस्यानुस्मरणान्मंत्री नित्यं मधुरभोजनः
व्याधिमृत्योश्च निर्मुक्तः सूर्यलोकं स गच्छति
मनसा कर्मणा वाचा शापानुग्रहतोपि वा
जपित्वा द्वादशलक्षं सशरीरो दिवं व्रजेत् 1.212.
अथेदं परमं वामं सूर्यस्य हृदयं शृणु
वियुक्तं चंद्रसंयुक्तमृकारेण च भारत
यकारबिंदुसंयुक्तं वैशाखः कथितो बुधैः
इष्टं कवचमादिष्टमस्त्रं वक्ष्ये निबोध मे
इदमस्त्रं स्मृतं राजन्नमृतं च निबोध मे
ॐ ब्रह्मन्नस्त्रममृतं गायत्रीं चापि ते रोगं धेनुर्वै परिकीर्तितम्
व्यनेत्र एतान्यंगानि सूर्यस्यामिततेजसः
सावित्रीं कंठदेशे तु अशेषं मूर्ध्नि चिंतयेत्
प्राणायामे च तथा परिवीरसमन्वितम् 1.212.
पुनस्त्वामेव वध्यं तु वकारेणात्मना लभेत्