अमुक्तेऽथ तया विप्रे परो व्याधिरजायत
पृथिवीं पर्यटन्सर्वां पुनरागात्पितुर्गृहम्
पितर्गतस्तु तीर्थानि पुण्यान्यायतनानि च
कृतेऽपि हि परे तात प्रायश्चित्ते तु मेऽनघ
कृतेन कर्मणा येन अल्पायासेन मे विभो
कथ्यतां मा चिरं तात कुरु निःश्रेयसं मम शोकदुःखाभिभूतस्तु वाक्यं पुत्रमुवाच ह
तीर्थानि च त्वया वत्स प्रायश्चित्तानि कुर्वता
उपायमेकं वक्ष्यामि येन त्वं मोक्षमाप्स्यसि
शरीरेण विहीनोऽस्मि हेतुना सर्वकर्मणाम्
देवैरपि सुपूज्योयमुपलेपनमार्जनैः
भानुरेको द्विजश्रेष्ठ ऊचुरेवं मनीषिणः
भानुमाश्रित्य सर्वे ते मोदंते दिवि पुत्रक
एवं भानुं सर्वमान्यमधुना खिलकामदम्
तमाराधय वै भक्त्या जपन्मंत्रमनुत्तमम्
आराधयन्रविं भक्त्या जपन्साम महामते
ॐकारप्रवरोद्गीथं प्रस्थानं च चतुष्टयम्
पंचमः परिहारोत्र षष्ठमाहुस्तमद्भुतम्
साप्तविध्यमिति प्रोक्तं हिंकारप्रणवेषु च
एतेषां तात साम्नां वै कंठे जाप्यं परं मतम्
हिरण्यनाभ उवाच साधु पुत्र कुलं पूतं त्वत्पुत्रेण समेन च
एवं गतस्यापि हि ते जाता पुत्र विधेः स्मृतिः
प्रवराणि हि साम्ना वै ब्रह्मणा कथितानि ह तस्मादेकं परं जाप्यं सर्व पापभयापहम्
एतेषां तात साम्नां तु नान्यज्जाप्यं च यद्भवेत्
ततः श्राव्यं तृतीयं तु जप्तव्यं मुक्तिमिच्छता
स्वयं दैवतमादिष्टं छंदसामुत्तमं व्रतम्
जपश्च विनियोगोपि लक्षणं च निबोध मे
ऋतुर्भावस्तथा धर्मो विधर्मः सत्यकृत्तथा
यदेभिर्गीयते शब्दे रुचिरं समयैर्द्विजैः
एतद्वै जपमानस्तु पुनरावर्तते न तु
एतज्जाप्यं तु संजप्य आराधय दिवाकरम्