अर्कं चैव समाराध्य ततोऽगुस्तेऽर्कसाम्यताम् 1.210.
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः
श्रुतं मया तु बहुशो न श्रुतं कौथुमिर्यथा
सिद्धिं गतोऽर्कमाराध्य कुष्ठान्मुक्तश्च सुव्रत
कथमाराधयामास भानुं देवपतिं द्विज
अर्कसम्पुटिकावर्णनम् आसीत्पुरा महाविद्वान्ब्राह्मणः स्थानगोत्तमः
स गतः पुत्रसहितो जनकस्याश्रमं द्विजः
क्रोधाविष्टेन वै तत्र हतः कौथुमिना द्विजः
भ्रातृभिश्च महाबाहो तथा शिष्टैश्च कृत्स्नशः
तीर्थानि स जगामाथ दिव्यान्यायतनानि च
अमुक्तेऽथ तया विप्रे परो व्याधिरजायत
पृथिवीं पर्यटन्सर्वां पुनरागात्पितुर्गृहम्
पितर्गतस्तु तीर्थानि पुण्यान्यायतनानि च
कृतेऽपि हि परे तात प्रायश्चित्ते तु मेऽनघ
कृतेन कर्मणा येन अल्पायासेन मे विभो
कथ्यतां मा चिरं तात कुरु निःश्रेयसं मम शोकदुःखाभिभूतस्तु वाक्यं पुत्रमुवाच ह
तीर्थानि च त्वया वत्स प्रायश्चित्तानि कुर्वता
उपायमेकं वक्ष्यामि येन त्वं मोक्षमाप्स्यसि
शरीरेण विहीनोऽस्मि हेतुना सर्वकर्मणाम्
देवैरपि सुपूज्योयमुपलेपनमार्जनैः
भानुरेको द्विजश्रेष्ठ ऊचुरेवं मनीषिणः
भानुमाश्रित्य सर्वे ते मोदंते दिवि पुत्रक
एवं भानुं सर्वमान्यमधुना खिलकामदम्
तमाराधय वै भक्त्या जपन्मंत्रमनुत्तमम्
आराधयन्रविं भक्त्या जपन्साम महामते
ॐकारप्रवरोद्गीथं प्रस्थानं च चतुष्टयम्
पंचमः परिहारोत्र षष्ठमाहुस्तमद्भुतम्
साप्तविध्यमिति प्रोक्तं हिंकारप्रणवेषु च
एतेषां तात साम्नां वै कंठे जाप्यं परं मतम्
हिरण्यनाभ उवाच साधु पुत्र कुलं पूतं त्वत्पुत्रेण समेन च