इत्यामंत्र्य ततो गच्छेत्स्वगृहं कुरुनन्दन 1.210.
कृत्वा च पावकं राजन्ब्राह्मणान्भोजयेत्ततः
अपूपान्गुडपूपांश्च पयो दधि तथा नृप
वर्ज्यानि भरतश्रेष्ठ शृणु त्वं गदतो मम
सिस्रुकं च तथान्यच्च राजमाषांस्तथैव च
दुर्गधं यच्च कटुकमत्यल्पं भास्करस्य तु
इत्थं भोज्य द्विजं राजन्प्राशयेदर्कसंपुटम्
गृहीत्वा केतनं यस्तु भजतेऽन्यत्र लोकतः
निष्क्रम्य नगराद्राजन्गत्वा पूर्वोत्तरां दिशम्
जातं दृष्ट्वा महाबाहो पूजयित्वा खगोत्तम
शाखाया अग्रतः पात्रे सुसूक्ष्मे पल्लवाश्रिते 1.210.
स्नातः पूज्य विवस्वंतमर्कपुष्पैः खगोत्तम
प्राश्य मंत्रेणार्कपुटं ततो भुंजीत वाग्यतः
ॐ अर्कसंपुट भद्रं ते भद्रं तेऽर्कं सदास्तु वै
इमं मंत्रं जपन्राजन्स्मरन्नर्कं महामते
प्राश्य भुंक्ते च यो राजन्स याति परमां गतिम्
अनेन विधिना भक्त्या कर्तव्या सप्तमी सदा
यश्चेमां सप्तमीं कुर्याद्भास्करं प्रीणयन्नरः
सुवर्णं रजतं ताम्रं हिरण्यं च तथा क्षयम्
कुष्ठरोगाच्च वै मुक्तो जयस्तोमो महीपतिः
अर्कं चैव समाराध्य ततोऽगुस्तेऽर्कसाम्यताम् 1.210.
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः
श्रुतं मया तु बहुशो न श्रुतं कौथुमिर्यथा
सिद्धिं गतोऽर्कमाराध्य कुष्ठान्मुक्तश्च सुव्रत
कथमाराधयामास भानुं देवपतिं द्विज
अर्कसम्पुटिकावर्णनम् आसीत्पुरा महाविद्वान्ब्राह्मणः स्थानगोत्तमः
स गतः पुत्रसहितो जनकस्याश्रमं द्विजः
क्रोधाविष्टेन वै तत्र हतः कौथुमिना द्विजः
भ्रातृभिश्च महाबाहो तथा शिष्टैश्च कृत्स्नशः
तीर्थानि स जगामाथ दिव्यान्यायतनानि च