गुडोदकेन नैवेद्यं निवेद्यं प्रीतये रवेः जपन्भौमं परं जाप्यं विनिद्रः सततं बुधः।।४ शतानीक उवाच किं तत्परं भगवतः प्रियं जाप्यमनुत्तमम् । । ५ जप्तव्यो यत्परैर्भक्त्या भानुस्तस्याग्रतो नरैः । तन्मे ब्रूहि तथा मन्त्रान्धूपदीपान्विशेषतः । । येनाहं तं जपञ्जप्यं पूजयामि दिवाकरम् । । ६ सुमन्तुरुवाच वच्मि ते भरतश्रेष्ठ समासान्न तु विस्तरात् । । ७ षडक्षरेण मन्त्रेण कुर्यात्सर्वं समाहितः । जपं होमं तथा पूजां शतजप्तेन सर्वदा । । ८ सावित्र्या च जपं पूर्वं कृत्वा शतसहस्रशः । पश्चात्सर्वं प्रकुर्वीत जपादिकमनाकुलम् । । ९ ॐ भोः सावित्रि भास्कराय सहस्ररश्मि धीमहि । तेन सूर्यः प्रचोदयात् । । 1.210.१० जप एव परः प्रोक्तः सप्तम्यां भानुना स्वयम् । जप्त्वा सकृद्भवेत्पूतो मानवो नात्र संशयः । । ११ प्रभाते त्वथ सप्तम्यां जपन्नियतमानसः । पूजयेद्भान्करं भक्त्या पूर्वोक्तविधिना नृप । । १२ श्रद्धया भोजयेच्चापि ब्राह्मणाञ्छक्तितो नृप । दिव्यान्भोगांश्च विधिवद्भक्ष्यभोज्यैरनेकशः । । १३ वित्तशाठ्यं न कुर्वीत भोजकांश्च प्रभोजयेत् । न भोजयेत्तथाऽसौरान्सौरान्यत्नेन भोजयेत् । । १४ शतानीक उवाच के भोज्या के न वा भोज्या ब्राह्मणा ब्रह्मवित्तम । केषु चित्तेषु सप्तम्यां देवदेवो दिवाकरः । । १५ घटीभोज्यो भवेद्विप्रः सप्तमीं कुरुते च यः । सौरभिन्नेष्वभोज्यो यो यश्च भुक्तो दिवाकरे । । १६ एते भोज्या द्विजा राजन्नादित्येन समासतः । प्रोक्ताः कुरुकुलश्रेष्ठ तथाऽभोज्याञ्छृणुष्व वै । । १७ सभार्यः सपतिर्यस्तु कुष्ठरोगैर्हतश्च यः । यश्चान्यदेवताभक्तस्तथा नक्षत्रसूचकः । । १८ परापवादनिरतो यश्च देवलकस्तथा । एतेऽभोज्याः सवित्रा तु स्वयं देवेन चिन्तिताः । । १९ शतानीक उवाच ये भोज्या ब्राह्मणाः प्रोक्ता ये चाभोज्या द्विजोत्तमाः । एतेषां लक्षणं ब्रूहि सर्वेषां वै समाहितः । । 1.210.२० सुमन्तुरुवाच साधु पृष्ठोऽस्मि राजेन्द्र कीर्तयाम्येव कृत्स्नशः । पठतां तु त्रयी विद्यां ब्राह्मणानां कदम्बकः । । २१ घटेत्युक्ता तु सा राजन्स्वयं देवेन भानुना । सा घटा विद्यते यस्य स घटीत्युच्यते द्विजैः । । २२ ब्रह्मक्षत्रविशां वीर शूद्राणां च कदम्बकः । शृण्वतां विधिवत्पुण्यं भक्त्या पुस्तकवाचनम् । । २३ इति मासे निबद्धस्य होमस्येति च भानुना । कथितं कुरुशार्दूल स्वयमाकाशगामिना । । २४ यस्याः कर्ता भवेद्यस्तु मम स्यात्करको मतः । स विप्रो राजशार्दूल सदेष्टो भास्करस्य तु । । २५ जयोपजीवी व्यासश्च समः स्याज्जीवकस्तथा । यान्येतानि पुराणानि सेतिहासानि भारत । । जयेति कथितानीह स्वयं देवेन भास्वता । । २६ एकं निवासयन्यस्तु ब्राह्मणं तूपजीवति । जयोपजीवी स ज्ञेयो वाचकश्च तथा नृप । । २७ आरुणेयादिशास्त्राणि सप्ताश्वतिलकं तथा । यश्च जानाति सौराणि विप्रः सौरस्स तत्त्ववित् । । २८ पूजयेत्सततं यस्तु भास्करं नृपसत्तम । भोजकांश्च तथा राजन्यथा देवं दिवाकरम् । । २९ स ज्ञेयो भास्करे भक्तो भोजनीयः प्रयत्नतः 1.210.
वृषली यस्य वै भार्या ब्राह्मणस्य विशेषतः
दैवेन निहतः कुष्ठी ब्राह्मणो ब्रह्मघातकः
ज्ञेयोन्यदेवभक्तोसौ स विप्रः कुरुनंदन
नादित्यं पूजयेद्यस्तु स भोज्यो न कदाचन
यस्य याति गृहे राजन्भोजको मानवस्य तु
रक्षोभूतपिशाचाश्च योगिन्योपि पलायिताः
सप्तसंवत्सरं यावतृप्तो भवति भास्करः यस्तु तान्निंदते विप्रः स न भोज्यः कदाचन
निजं भर्तारमुत्सृज्य स्वैरं यान्यत्र गच्छति
प्रच्छन्नं रोचते राजन्या नारी भवदोषतः
योऽस्यां रतो भवेद्विप्रः स ज्ञेयः स्वैरिणीरतः 1.210.
रंगोपजीवी राजेंद्र तथा च बहुयाचकः कृतेनानेन यादृक्च उद्वृत्तः कुरुनंदन
यः स्तुतिं गायते विप्रः प्रोच्चैस्तु जनसंसदि
सूचनं कथनं प्रोक्तं सर्वशास्त्रेषु भारत
वेदांगं ज्योतिःशास्त्रं तु षष्ठं प्रोक्तं मनीषिभिः
षडंगो न भवेत्तेन रहितेन द्विजेन च
भोज्योऽखण्डं ययौ विप्रोऽनर्थकेन त्वनर्थकम्
यस्य जीव्यमिदं ज्ञेयमंगं विप्रस्य वै भवेत्
सांवत्सरेण ज्योतिषा ज्ञाननक्षत्रसूचकः
निष्कारणं पराणां च परोक्षं दोषकीर्तनम्
ब्राह्मणो यस्तु राजेंद्र वृत्त्या कर्म करोति वै 1.210.
आधिपत्यं भक्षणं च नैवेद्यस्य परंतप
नाधिकारस्तु विप्राणां भौमानां देवपूजने
यस्तु पूजयते देवीं ब्राह्मणो द्रव्यलोभतः
देवालयेषु सर्वेषु अग्निकार्यं च सुव्रत
देवालयेषु सर्वेषु वर्जयित्वा शिवालयम्
अधिकारः स्मृतो राजन्भोजकानां न संशयः
नैवेद्यं भुञ्जते यस्माद्भोजयंति च भास्करम्
पूजयित्वा तु वै देवान्नैवेद्यं भक्ष्य च प्रभोः
ब्राह्मणश्चापि तं ब्रूया त्तीक्ष्णे सति महामते