व्रतैस्तु विविधैर्वीर तपोभिर्वा सुदुष्करैः
तीर्थाभिषेचनैर्वापि दानहोमार्चनैस्तथा मोक्षार्थी पार्थिवश्रेष्ठ यथाह भगवान्रविः
कृत्वादित्यदिने नक्तं भक्त्या संपूजयेद्रविम् सूर्यलोके च नियतं तस्य वासो न संशयः
यस्तु पूजयते भक्त्या सप्तम्यां भास्करं नरः
नांधो न कुष्ठी न क्लीबो न व्यंगो न च निर्धनः
विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात्
लोभात्प्रमादान्मोहाच्च व्रतभंगो यदा भवेत्
प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् 1.208.
अभ्यर्च्य सूर्यसप्तम्यां माल्यधूपादिभिर्नरः
सप्तम्यां विप्रमुख्येभ्यो हिरण्यं यः प्रयच्छति
इतीदं कीर्तितं वीर सप्तमीव्रतमुत्तमम्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यारुणसंवादे सप्तसप्तमीव्रतवर्णनं नामाष्टाधिकद्विशततमोऽध्यायः
सप्तमीव्रतवर्णनम् अथवा यावकाहारः शीर्णपर्णाशनोऽपि वा
क्षीराशी चैकभक्तो वा भिक्षाहारोथ वा पुनः
पुष्पोपहारैर्विविधैः पद्मसौगन्धिकोत्पलैः
कृष्णगंधपायसाद्यैर्विचित्रैः सुविभूषणैः
स तत्फलमवाप्नोति क्रतुभिर्भूरिदक्षिणैः ५ विमानवरमारूढः सूर्यलोके महीयते
एवं भक्त्या विवस्वंतं प्रतिमासं समाहितः
चैत्रिके मासि विष्णुश्च माधवे ह्यर्यमेति वै
पर्जन्यः श्रावणे मासि नभस्ये वरुणस्तथा
मार्गशीर्षेपि मित्रस्तु कीर्तितः सततं बुधैः
माघे भगेति विज्ञेयस्त्वष्टा चैवाथ फाल्गुने
धूपार्चनविधिमिमं सप्तम्यां सुसमाहितः
ततस्ते सर्वमाख्यातं यथागुह्यतमं विभोः
न च पापकृते देयं न देयं नास्तिकाय वा
य इदं शृणुयान्नित्यं सप्तमीव्रतमुत्तमम्
इह लोके सुखं प्राप्य सूर्यलोके महीयते
सूर्यपूजावर्णनम् विस्तरात्ते पुनर्वच्मि शृणु चैकमना विभो
फाल्गुनामलपक्षस्य षष्ठ्यां च समुपोषितः
अर्कपुष्पैर्महाबाहो गुग्गुलेन सुगंधिना