तथा भानुं समाराध्य प्राप्नुवंति नराः फलम् 1.207.
मोक्षार्थी मोक्षमाप्नोति चाथ वाऽमरतां व्रजेत्
ब्रह्मादयो देवगणा भानुमाराध्य भारत
अचलानि महाभागाः सर्वपापहराणि च
भीष्मोऽपि पूजयामास भक्त्या भानुं विधानतः
तथा त्वमपि राजेन्द्र पूजयेमं दिवाकरम्
यथा गतः स भगवान्व्यासो भीष्मश्च मानद
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्यासभीष्मसंवादे आदित्यपूजामाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः
सप्तमीव्रतवर्णनम् उपोषितो भवतीह नरो यस्तु द्विजोत्तम
बहवः कुरुशार्दूल भूयस्त्वेताः शृणुष्व मे
स्वयं याः कथिताः पूर्वमादित्येन खगाधिप
अर्कसंपुटकैरेका द्वितीया मरिचैस्तथा
अनोदना पञ्चमी स्यात्षष्ठी विजयसप्तमी
शुक्लपक्षे रविदिने दक्षिणे चोत्तरायणे
स तां सु ब्रह्मचारी स्याच्छौचयुक्तो जितेन्द्रियः
पञ्चम्यामेव पुरुषः कुर्यान्नित्य मनात्मकम्
अर्कसंपुटकैरेकां तथान्यां मरिचैर्नयेत्
अनोदनामन्नरहित उपासीत यथाविधि 1.208.
तथैकां सप्तमीं कृत्वा प्रतिमासं विचक्षणः
आसां लिखित्वा नामानि पत्रकेषु पृथक्पृथक्
तदर्थं यो न जानाति लोकवाह्योपि वा नरः
तेनैव विधिना यस्तु प्रतिमासं च तत्तपः
इत्येताः सप्त सप्तम्यः स्वयं प्रोक्ता विवस्वता
अर्कसंपुटकैर्वित्तमचलं सप्तपौरुषम्
सर्वरोगाः प्रणश्यंति निंबपत्रैर्न संशयः
अतो धनं धनं धान्यं सुवर्णं रजतं तथा
उपोष्य विजयां शत्रून्राजञ्जयति नित्यशः
पुत्रकामो लभेत्पुत्रमर्थकामोर्थमक्षयम् कृत्स्नान्कामान्ददात्येषा कामदा कुरुनन्दन ।। 1.208.
नरो वा यदि वा नारी यथोक्तं सप्तमीव्रतम्
न तेषां त्रिषु लोकेषु किंचिदस्तीति दुर्लभम्