प्रत्यक्षदेवता ह्येषा देवदेवोयमादरात् 1.207.
पूजयेत्तनयः पापी तथादित्यदिनैरपि
प्राप्ते सूर्यदिने भक्त्या भानुं संपूज्य श्रद्धया
यस्तु पूर्वं रवेर्भक्त्या पञ्चरत्नसमन्वितम्
मार्तंडप्रीतये यस्तु कुर्याच्छ्राद्धं विधानतः
कृत्वोपवासं षष्ठ्यां तु सप्तम्यां यस्तु मानवः
सर्वदोषविनिर्मुक्तः सूर्यलोके महीयते
प्रपूज्य विधिवद्भानुं सर्वान्कामानवाप्नुयात्
इति भीष्म विजानीहि न देवो भास्करात्प्रियः
रत्नपर्वतमारुह्य यथा भुवि नराधिपाः
तथा भानुं समाराध्य प्राप्नुवंति नराः फलम् 1.207.
मोक्षार्थी मोक्षमाप्नोति चाथ वाऽमरतां व्रजेत्
ब्रह्मादयो देवगणा भानुमाराध्य भारत
अचलानि महाभागाः सर्वपापहराणि च
भीष्मोऽपि पूजयामास भक्त्या भानुं विधानतः
तथा त्वमपि राजेन्द्र पूजयेमं दिवाकरम्
यथा गतः स भगवान्व्यासो भीष्मश्च मानद
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्यासभीष्मसंवादे आदित्यपूजामाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः
सप्तमीव्रतवर्णनम् उपोषितो भवतीह नरो यस्तु द्विजोत्तम
बहवः कुरुशार्दूल भूयस्त्वेताः शृणुष्व मे
स्वयं याः कथिताः पूर्वमादित्येन खगाधिप
अर्कसंपुटकैरेका द्वितीया मरिचैस्तथा
अनोदना पञ्चमी स्यात्षष्ठी विजयसप्तमी
शुक्लपक्षे रविदिने दक्षिणे चोत्तरायणे
स तां सु ब्रह्मचारी स्याच्छौचयुक्तो जितेन्द्रियः
पञ्चम्यामेव पुरुषः कुर्यान्नित्य मनात्मकम्
अर्कसंपुटकैरेकां तथान्यां मरिचैर्नयेत्
अनोदनामन्नरहित उपासीत यथाविधि 1.208.
तथैकां सप्तमीं कृत्वा प्रतिमासं विचक्षणः
आसां लिखित्वा नामानि पत्रकेषु पृथक्पृथक्