ग्रहाणां शृणु बीजानि रूपं च गदतो मम
ॐकारा दीपिताः सर्वे नमस्कारांतयोजिताः
होमकाले तु स्वाहांतं मंत्रं षट्कारसंयुतम्
सोमाद्याः केतुपर्यंता ग्रहा ह्येवं प्रकीर्तिताः
सुमुखौ तु करौ कृत्वा श्लिष्टौ चैव प्रसारितौ
मंत्रोद्धारस्तवाख्यातो रहस्यो दुर्लभो नृप
जपावर्णं महातेजं श्वेतपद्मोपरि स्थितम्
तथैकवक्त्रं द्विभुजं सोमपंकजकंधरम्
मार्तंडस्य इदं रूपं शुचिः स्नातो जितेंद्रियः
सोऽचिराद्भवते लोके वित्तेन धनदोपमः
हृदयं चोत्तमांगं च शिखा वै वक्त्रमेव च
वरदाऽभयहस्ताश्च ध्यातव्या साधकेन तु
विशेषः कथितो ह्येष कामरूपः स्वभावतः
श्वेतवर्णं स्मरेत्सोमं रक्तवर्णं कुजं स्मरेत्
शंखक्षीरनिभं श्वेतं काणं चांजनसंनिभम्
वामहस्तौ कटिन्यस्तौ दक्षिणौ चाभयप्रदौ
इति भानुं ग्रहैः सार्धं ये ध्यायंति नृपोत्तम
तवाख्यातमिदं वक्त्रं ग्रहाणां भीष्म कृत्स्नशः
अनेन विधिना भीष्म सदा देवं दिवाकरम्
इत्थं पूजयमानस्तु सर्वदेवं दिवाकरम्
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्यपूजामाहात्म्यवर्णन्ं नाम षडुत्तरद्विशततमोऽध्यायः
आदित्यपूजाविधिवर्णनम् पूजयंति सदा ह्येनं ब्रह्मविष्णुशिवादयः
व्यास उवाच एवमेतन्न संदेहो यथा वदसि भारत
नास्ति सूर्यसमं ब्रह्म नास्ति सूर्यसमं हुतम्
नास्ति सूर्यादृते कामो नास्ति सूर्यादृते पदम्
नास्ति सूर्यसमा माता नास्ति सूर्यसमो गुरुः
तमेकं दैवतं विद्यान्नैवाप्यर्कपरायणम्
तमर्चंतः स्तुवंतश्च प्राप्नुवंति परां गतिम्
राजा चोरा ग्रहाः सर्पा दारिद्र्यं दुःखसंपदः
स पूज्यः स नमस्कार्यः स हि ध्यातव्य एव च