तेजोबिंबांतमध्यस्थ आदित्यः परमार्थतः
इत्येष विधिराख्यातो मया भीष्म तवाखिलः
इत्थं पूज्य विवस्वन्तं हृद्बीजेन विसर्जयेत्
सूर्यपूजामाहात्म्यवर्णनम् रूपवर्ण समं चैव पौराणिकमनुत्तमम्
पौराणिकानां मंत्राणामुद्धारं वैदिकादृते
वर्णरेफसमायुक्तं विद्रुमेनैव भूषितम्
बिंदुरेफसमायुक्तं दीर्घया मात्रया तथा
तृतीयं तु तथा प्रोक्तं सविसर्गं जनाधिप
भास्करोयं महान्साक्षान्मंत्रमूर्तिस्त्रिरक्षरः
यस्त्विदं जपते भक्त्या स याति परमां गतिम्
पद्माकारौ करौ कृत्वा मध्ये श्लिष्टे तु मध्यमे
अनया बद्धया राजन्भास्करस्य प्रियो भवेत्
हृदयं तस्य विज्ञेयं यदक्षरवरं स्मृतम्
शिरस्यर्कमिति प्रोक्तं देवदेवस्य भारत
अष्टाक्षरा तु विद्येयमादित्यस्य महात्मनः
अकारेण समायुक्तं बिंदुरेफसमन्वितम्
एकाक्षरमिदं प्रोक्तमभेद्यं यः स्मरेदिदम्
सविसर्गो रेफ इति अस्त्रमेकाक्षरं स्मृतम्
संमुखौ तौ करौ कृत्वा श्लिष्टौ तु ग्रथितांगुली
हृच्छिरः सशिखा चर्मा मुद्रेयं व्योमसंज्ञिता
मालशब्दकृतादिस्तु मुद्रा ह्यस्त्रस्य कीर्तिता
कर्णबिंदुसमायुक्तं यं चतुर्थं महामते
स्मरः स्यात्साधकेंद्राणां दुरंतो नाशने ध्रुवम्
कनिष्ठानामिके कुंच्य अंगुष्ठेन ततः क्रमेत्
गोवृषा नाम विख्याता दर्शयेद्दिव्यगोचरम्
उभाह्वारूं विभूतिश्च विमला रें प्रकीर्तिता
गोवृषा नाम रं सर्वं वीरभद्रकरी तथा
उत्तानौ तु करौ कृत्वा सव्याकुंच्य ततोंगुलीः
सर्वासां चैव शक्तीनामेता मुद्राः प्रदर्शयेत्
नामान्येतानि शक्तीनां समासात्कथितानि तु